________________
(804)
परिमिताद्वन्द्वादर्थात् बौद्धादीन् मुञ्चतीति सम्बन्धः । तत्र रागाद्यकलुषोऽहं भवामीति ज्ञानं योगाचाराणां यदाहु:रागादिकलुषं चित्तं संसारस्तु विविक्तता |
संक्षेपात् कथितो मोक्षः प्रहीणाचरणैर्जिनैः ॥
तथा । प्रभास्वरमिदं चित्तं प्रकृत्या तनवो मोदाः । तेषामपाये सर्व्वार्थ तज्ज्योतिरविनश्वरम् ॥
3A, बन्धमोक्षौ स्थिरैकादिपक्षे युज्येते । बद्धो हि मोक्षाय प्रवर्त्तते । प्राप्य च निर्वृतो भवतीति । सन्तानको न विद्यते तस्य भेदाभेदविकल्पोपहतत्वादतः संचिद्रूपायामपि शून्योऽहं भवामीति ज्ञानं माध्यमिकानां । ते खलु सर्व्वभावनैः स्वाभाव्यवादिनः संविदोऽपि तैः स्वाभाव्यात् मिथ्यात्वमभिदधतः तच्छून्यतायामेव मोक्षमाचत्तीरन् ।
यदाहु:
चित्तमात्रमिदं विश्वं इति या देशना मुखैः ।
तवासपरिहारार्थ बालानां सा न तत्त्तः ॥
सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः ।
तदप्ययुक्तं संविदो हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि मिथ्यात्वे, सत्तैव न भवेतथ्या नीलादिवत् परतन्त्रस्वरूपत्वाभावात् । नीलादीनां हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि संविदात्मतयाऽस्त्यवस्थानं । संविदि तु स्फुरतामा सारायां मिथ्यात्वात् असत्यमेव स्यात् इति न किश्चित् स्फुरेदिति मूर्च्छ व स्यादिति । न च संविदः स्फुरता साररूपायाः अपनेयः शक्यक्रिय इति यत् किञ्चिदेतत् ।
अथ सर्व्वालम्बनधर्मैश्च सर्व्वसत्त्वैरशेषतः । सर्व क्लेशाशयैः शून्यं अशून्यं परमार्थतः ॥
इत्याद्युक्तयुक्त्या ग्राह्यग्राहकभावादिना कल्पितेन रूपेण शून्यं न तु संधिद्र पेणापीति चेत्, एवं ह्युच्यमाने विज्ञानवादे एव अभ्युपगमः स्यात् । सोऽपि हि कल्पितपरतन्त्रादिरूपान्यत्वेनेत्यन्तःकरणस्यैव विचित्रात्मावभासिनोऽघभासिततस्त्वस्य विस्फूर्जितमिदं जगदित्याद्युक्तेर्विज्ञशिमेव परमार्थमभ्युपागमदिति नवं किञ्चिदायुष्मतोत्प्रेक्षितं । तत्र चोक्तो दोषः ।