________________
(
758 )
8679
10271. मायावादखण्डन Mayavādakhandana.
By Anandatirtha. (With the commentary by Jayatirtha.) Substance, country-made paper. 113 x 5 inches. Folia, 8. Lines, 10 on a page. Extent in slokas, 200. Character, modern Nāgara. Appearance, fresh. Complete.
Printed, ed. Bombay. Beginning:
श्रीगणेशाय नमः । श्रीवेदव्यासाय नमः । (Com.) नरसिंहप्रसिद्धोरुप्रत्यूहतिमिरापहं ।
प्रणिपत्य व्याकरिष्ये मायावादस्य खण्डनम् ॥ इह विविधसांसारिकदुःखदर्शनेन विरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिणस्तनिवृत्यै परमानन्दावाप्तये च सकलजीवजड़ात्मकात् प्रपश्चात् परमार्थत एवात्यन्तभिन्नं निखिलगुणोदारं निरस्तदोषं परब्रह्म प्रतिपादयितुं सकलश्रुतिस्मृतीनां तदुपकरणीभूतब्रह्ममीमांसायाश्च प्रवृत्तिरिति तत्त्वम्। अपरे तु सतः परब्रह्मभूतस्यैव बीजस्य अज्ञाननिमित्तं दुःखादितदद्वैतज्ञाननिवर्हणीयमित्यतोस्यानर्थहेतोः आ आत्मैकत्वविद्याप्रतिपत्तये सर्वशास्रारम्भ इति वर्णयन्ति। तन्मतमखिलं अपाकृत्य स्वमतं समर्थयितुं इदं प्रकरणमारभमाणो भगवान् आचार्यः परममङ्गलं नरसिंहस्तवनमादावाचरति ।
(Text). नरसिंहोखिलाज्ञानमतध्वान्तदिवाकरः।
जयत्यमितसज्ज्ञानसुखशक्तिपयोनिधिः ॥ The text ends :
इति सर्वमुनीनां + मायावादतमोखिलं । निरस्तं तत्त्ववादेन सतां संशयनुत्तये ॥
नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥