________________
( 719 ) न स्तौमि न च निन्दामि कथयामि यथास्थितं । एकैकस्मिन्निह श्लोके प्रोक्तः सिद्धान्तनिर्णयः ॥ यथा ब्रह्माण्डसर्वस्वं पिण्डे पिण्डे निरूपितं । तथा सिद्धान्तसर्वस्वं श्लोके श्लोके निरूपितं ॥ अविद्योन्मूलकुद्दालस्त्वविद्या दावपावकः अविद्या मृगशाईलस्त्वविद्या मृगकेशरी । अविद्या जीवगरलमविद्या कण्टकच्छुरी अविद्यालवणस्यापस्तुविद्या प्रलदयार्णवः ॥ अविद्या शैलदम्भोलिस्तविद्या ध्वंसशङ्करः अविद्या कंसगोविन्दस्त्वविद्या चण्डचण्डिका । अघिद्या दाहशीतांशुरविद्या ध्वान्तभास्करः तथैव बोधसारोऽयं अविद्या स्वप्नजागरः ॥ गुरुर्मे बोधसारोऽयं यतो ज्ञानप्रदो मम शिष्यो मे बोधसारोऽयं यमुद्दिश्य वदाम्यहं । स्वामी मे बोधसारोऽयं मां पालयति यः सदा सेवको बोधसारो मे मम सेवां करोति यः ॥ सुहृन्मे बोधसारोयं सर्व जानाति मद्गतं सखा मे बोधसारोऽयं यस्मिन् दृष्टे सुखं मम । गृहं मे बोधसारोऽयं यत्रैव निवसाम्यहं आरामो बोधसारो मे विहारो यत्र मामकः कान्ता मे बोधसारोऽयं यमालिङय स्वपाम्यहं ॥ मनो मे बोधसारोऽयं मननं येन जायते बुद्धिर्मे बोधसारोऽयं परमं बुध्यते यया। चित्तं मे बोधसारोऽयं येन चेतामि तत्पदे अहंकारो बोधसारो बोधसारोहमेव हि ॥ शरीरं बोधसारो मे ममता यत्र भूयसी . प्राणो मे बोधसारोऽयं यतः प्रियतरो मम । जीवो मे बोधसारोयं येन जीवाम्यहं सदा