________________
2B
(18
भवन्ति । तत्र ब्रह्मचारिणो नाम चतुर्विधा भवन्ति । गायत्रं ब्राह्मं प्राजापत्यं बृहदिति । धर्मोपनयनात् प्रभ्टति त्रिरात्रमक्षारलवणाशौ गायत्रीमधौते तत् प्रथमं गायत्रं नाम ॥ १ ॥
व्यष्टचत्वारिंशद्दर्षाणि ब्रह्मचर्यं चरन् प्रतिवेदं द्वादशवर्षं यावत् ग्रहणं वेदस्य एतद् ब्राह्मं नाम ॥ २॥
यः खदारनिरत ऋतुकालादिगामी सदा परदाराभिवर्जो (?) प्राजापत्यं नाम ॥ ३ ॥
प्रथ चतुर्विंशतिवर्षाणि गुरुकुलवासौ ब्राह्मः अष्टचत्वारिंशafarit प्राजापत्यः व्याप्रयाणाद् गुरोरपरित्यागी नैष्ठिको बृहदिति धर्मार्थविप्रयोगात् गुर्वपरित्यागात्तन्नैष्ठिकं बृहदिति ॥ 8 ॥ इति ब्रह्मचारी ॥
तत्र गृहस्था नाम चतुर्विधा भवन्ति । वातीवृत्तयः शालीनवृत्तयः यायावराश्चोरसन्यासिनश्चेति ।
तत्र कृषिगोरक्षवाणिज्यमगर्हितमुपभुञ्जानाः क्रियाभिर्जित व्यात्मानं प्रार्थयन्त्येतद् वार्त्तावृत्तयो नाम ॥ १ ॥
शतसंवत्सराभिः
यजन्तो याजयन्तोऽधीयन्तोऽध्यापयन्तो ददतः प्रतिगृहन्तः शतसंवत्सराभिः क्रियाभिर्यजन्तः व्यात्मानं प्रार्थयन्त एतच्छालीनवृत्तयो नाम ॥ २ ॥
यजमानान् याजयन्तः व्यधीयानानध्यापयन्तो ददतो न प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर्यजन्तः व्यात्मानं प्रार्थयन्ते तद् यायावरं नाम ॥ ३ ॥
उद्धृतपरिपूरिताभिरद्भिः कार्यं कुर्वाणा प्रतिदिवसमा + नोंछवृत्तिमुपभुंजानाश्चोरसन्नासिनो नाम ॥ ४ ॥ इति गृहस्थाः ॥
वानप्रस्था नाम चतुर्विधा भवन्ति वैखानसाः बौडम्बरा बालखिल्याः फेनपाचेति ।