SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ( 19 ) कृत्वा व्अकृष्टपच्याभिरोषधिभिर्ग्राम बहिष्कृताभिरग्निपरिचरां पञ्च महायज्ञक्रिया निर्वर्तयन्त व्यात्मानं प्रार्थयन्त्येतत् प्रथमं वैखानसं नाम ॥ १ ॥ प्रातरुत्थाय यां दिशमभिक्रम्य प्रेक्षन्ते तव व्याहृत्य इङ्गुदबदरनौवार श्यामाकादिभिरभिपरिचरणं कृत्वा पञ्च महायज्ञक्रिया निर्वर्तयन्त आत्मानं प्रार्थयन्त्येतत् डम्बरं नाम ॥ २ ॥ जटाधराचौर चम्मैवल्कलसंवृत्ताः कार्त्तिक्यां पौर्णमास्यां पुष्पं फलयुक्तमुत्सृजन्तः शेषान् अष्टौ मासान् वृत्त्युपार्जनमग्निपरिचरणं कृत्वा पञ्च महायज्ञक्रिया निर्वर्तयन्त आत्मानं प्रार्थयन्त्येतदु बालखिल्यं नाम ॥ ३ ॥ उद्दण्डका उन्मन्नका शीर्णपर्णफलभोजिनो यत्र तत्र वसन्तः व्यनिपरिचरणं कृत्वा पञ्च महायज्ञक्रिया निर्वर्तयन्त आत्मानं प्रार्थयन्त्येतत् फेणपा नाम । परिव्राजकाचतुर्विधा भवन्ति । कुटीचरा बहूदका हंसाः परमहंसाश्चेति । जनककात्यायनयाज्ञवल्का हरितहारौ त माण्डव्य जैमिनि प्रभ्भृतयः स्वपुत्रगृहेषु भैक्षचर्यं चरन्तः आत्मानं प्रार्थयन्त्येतत् प्रथमं कुटोचरा नाम ॥ १ ॥ त्रिदण्डकमण्डलु शिक्यपवित्रपादुकासन शिखायज्ञोपवीतकाषायवेशधारिणः साधुवृत्तेषु ब्राह्मणगृहेषु भैच्याहारं चरन्तः व्यात्मानं प्रार्थयन्त्येतत् बहूदका नाम ॥ २ ॥ शिखावर्जिता यज्ञोपवीतधारिणः तुण्डमुण्ठवपनं कृत्वा शिक्यकमण्डलु दण्डहस्ता ग्राम एकरात्रवासिनो नगरतीर्थावसथेषु पञ्चरात्रवासिनो गोमूत्रगोमयाहारा एकरात्रत्रिरात्रपक्षमासोपवासिनः कृच्छ्रातिकृच्छचान्द्रायण सान्तपनादित्रतं चरन्तः व्यात्मानं प्रार्थयन्त्येतत् हंसा नाम ॥ ३ ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy