________________
(
626
)
The beginning of the 4th Chapter :
योऽध्यारोपस्तृतीयोक्तश्चतुर्थे सा व्यपोद्यते । विद्यासूत्रस्य तात्पर्य अथवात्र निरूप्यते ॥
It ends :
यस्मादपरतन्त्रोयं वेदात्मा ब्रह्मशब्दितः । मनोवाक्कर्मभिस्तस्माद् भक्या तस्मै नमो नमः ।। नमोऽन्तं तेन लिङ्गन जप्योयं वंश इष्यते । विद्याप्रकरणे पाठाद्विद्याहेतुर्जयो मतः ॥ शतानि पञ्चश्लोकानां ततो द्वानवतिस्तथा ।
चतुर्थाध्यायसारस्य तावद्भिः संग्रहः कृतः ॥ 286B, इति वात्तिकसारे चतुर्थस्याध्यायस्य षष्ठं ब्राह्मणम् । समाप्तश्चायमध्यायः।
Chapter V begins :
समाप्तो मधुकाण्डोयं उपदेशप्रधानकः । उपपत्तिप्रधानोऽथ याज्ञवल्क्याख्य उच्यते ॥ पदार्थविषया युक्तिर्वाक्यार्थे तूपदेशगीः । अतो न पुनरुक्तत्वं काण्डयोः शेषशेषिणोः ॥ काण्डोयं याज्ञवल्क्याख्यः स्यादध्यायद्वयात्मकः । जल्पवादकथाभेदाध्यायाथी व्यवस्थितौ ॥
It ends :
आनन्दसागरः सोऽयमनन्यानुभवात्मना । सर्वदा सर्वतो भाति सर्ववस्तु तदात्मकम् ॥ शतानि पञ्च श्लोकानां द्वाविंशतिरितीरिताः । संख्या वार्तिकसारेऽस्मिन् पश्चमाध्यायसंग्रहे ॥ ५२२ ॥
Colophon: 157B, इति पार्तिकसारे पञ्चमाध्यायस्य नवमं ब्राह्मणम् ।