________________
( 583 )
तस्मै नमो विश्व हिते रताय विघ्नेश्वरायाखिललोककळे ।।
5B,
सिद्धासनं प्राप्य जितेन्द्रिया ये सत्यात्मबुद्धया सकलं विलाप्य । तिष्ठन्ति तत्त्वे सहजप्रबोधे तान् राघवानन्दगुरून् नमामि ॥
5B (Comm.) स्वग्रन्थस्य गुरुशिष्यसंवाद(6A)रूपतया वादकथात्वं द्योतयितुं योग्यमधिकारिणं शिष्यमुपक्षिपति-जन्मेति ।
(Text) जन्मकोटिभिरनुष्ठिताखिलध्यानकर्मपरमेश्वरक्षणैः ।
कृत्स्नदृश्यगतदोषविगुणबुद्धिमानथ करोति तत्त्वतः ।।
6A,
यद्यदल्पमिह किञ्चिदीक्षते तत्तदेव परिणामि नश्वरम् । निश्चिनोति परिमार्गयत्यतो नित्यवस्तु किमिहेति तत्त्वतः ॥
29B (the last śloka),
संपूज्य सीतापतिमाविरासीत् स्वानन्दसाम्राज्यमनामयं मे । सर्वशता शान्तिरसात्मनिष्ठे त्यागो विरागः परमः पराचि ॥
Commentary:
सीतापतिं संपूज्य मे अनामयं आमयः उपद्रवः अज्ञानं तत्कायं च तन्निवृत्तिसहितं स्वानन्दसाम्राज्यं स्वयमेवानन्दः स्वानन्दः सम्यग्राजत इति सम्राट् स्वानन्दश्चासौ सम्राट चेति स्थानन्दसम्राट् तस्य भाव भाषिरासीदाविर्भूतम् । सर्वं जानाति सर्वज्ञः सर्वज्ञस्य भावः सर्वज्ञता ब्रह्मात्मतेति यावत् शान्तिरसात्मनिष्ठे तपः