SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ( 531 ) इह खलु सर्वः परमकारुणिकः श्रीमदाचार्यभगवत्पादैरधिकारिणां योगसाधनात्मतत्त्वज्ञानाय ॐकारब्रह्मणो बोधकत्वेन तदेकत्वेन चा[भिप्रेत्य पञ्चीकरणे आत्मतत्त्वज्ञानप्रकारस्तत्साधनोपासनप्रकारश्चोपदिष्टः। तन्मूलं माण्डूक्यश्रुतेरोङ्कारगतब्रह्मबोधकत्वप्रतीकत्वोभयप्रकारप्रतिपादनपरतया तस्यापि तत्समानार्थकत्वात् तच्छ्रुतेः तथात्वं च अग्रे निरूपयिष्यते। तत्र तावत् विद्यारण्यचरणा ध्यानदीपे महता प्रबन्धेन निर्विशेषस्यापि ब्रह्मण उपास्तिं प्रसाध्य अनुष्ठानप्रकारोऽस्या पञ्चीकरण ईरितः इति पञ्चीकरणस्य ॐकारालम्बनब्रह्मोपासनपरत्वमास्थिता। तमेव पक्षमाश्रित्य प्रणव निर्णयव्याख्यातृभिः कृष्णानन्दसरस्वतीश्रीचरणैस्तत्प्रकारः प्रपञ्चितः। तत्र परोद्भावितशङ्काशूकान् अग्रे निरसयिष्यामः । आनन्दगिर्य्याचार्यास्तु पञ्चीकरणमोङ्कारसाधनकेवलात्मतत्त्वप्रतिपादनपरत्वेन योजितवन्तः। तदर्थसंग्रहश्च पञ्चीकृतपञ्चमहाभूतेत्यारभ्य अध्यारोपापवादन्यायन युगपद्वाच्यवाचकाविलापनपूर्वकनिर्विशेषब्रह्मत्वप्रतिपत्त्यौपयिकतया .... वैलक्षण्येन केवलविशेषरूपतया उक्तः । It ends : हन्तातिदुर्वलपरोक्तिजरद्गवीनां प्रत्यञ्च (१) भर्म्यपरिकृतं न पातकेन । किन्ते फलं ननु विनोदय चित्त भूयः श्रीदेशिकेन्द्रचरणशरणोत्सवैः त्वम् ।। Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीरामभद्रभगवत्पूज्यपादपङ्कजहरिचरणपरायणश्रीरामानन्दसरस्वतीविरचितायां पञ्चीकरणतात्पर्यचन्द्रिकायां द्वितीयः उल्लासः समानः । Post-colophon: शुभमस्तु । सिद्विरस्तु । यादृशं पुस्तकं दृष्टा............. ............ etc. संवत् १७४३ मिती चैत्रशुदि पञ्चमीवार शुक्रवार ता दिन पुस्तक पञ्चीकरणतात्पर्य्यचन्द्रिका कल्याणमीक्षितव्या। खेमक शारण दास कायेथ। शुभमस्तु ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy