________________
( 494 )
गौडपादाचार्यैर्माण्डुक्योपनिषत् व्याख्याता । श्रीमच्छङ्करभगवत्पादाचार्यैर्दशोपनिषदः पञ्च रुद्रा नृसिंहतापिनी च शङ्करानन्दैः सदाशिवब्रह्मेन्द्रैः स्वयम्प्रकाशानन्दाद्यैश्च द्वात्रिंशोपनिषदः विद्यारण्याचायैरष्टोत्तरशतोपनिषदो व्याख्याताः ।
रामचन्द्रेणोपदिष्टे रामदूताय धीमते । ईशाद्यष्टोत्तरशतोपनिषद् यादसां पतौ ॥ निमज्ज्याच महावाक्यरत्नावलिरुदाहृता । विभाव्यते विभागेन सा त्रयोदशधा पुनः ॥ art विधिवाक्यानि बन्धमोक्षपराणि च ।
विद्दयेयवाक्यानि जगन्मिथ्यामराणि च ॥ तथोपदेशवाक्यानि जीवे शैक्यपराणि च । ब्रह्मविन्मननाख्यानि जीवन्मुक्तिपराणि च ॥ ब्रह्मानुभूतिरूपाणि तत्समाधिपराणि च ।
टखरूपवाक्यानि फलवाक्यान्यनन्तरम् ॥ विदेहमुक्तिवाक्यानि लिख्यन्तेऽन्विष्य तत्कमात् ॥
The end :
विध्यङ्घ्रिबन्धमुग्गुल्फो ह्यविधयेयजङ्घकः । जगन्मिथ्याजानुदेशस्तूपदेशोरुदेशकः ॥ ब्रह्मात्मैक्यदेिशो विद्यन्मनननाभिकः । जीवन्मुक्ताख्यदहरः स्वानुभूतिकरदयः ॥ ससमाधिस्कन्धदेशः सखरूपाख्य कन्धरः । फलभूतमहावाक्यफलो वैदेहमस्तकः ॥ एवंविध्यादिदेहान्तमहावाक्य कलेवरः । वस्तुतो निर्विशेषात्मा त्रिपान्नारायणः स्वयम् ॥ यन्महावाक्यसिद्धान्तमुक्तचित्तैकगोचरम् |
वासुदेवेन्द्रसंज्ञं तं नौमि सर्वात्मकं महः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य वासुदेवेन्द्रसरस्वतीचरणकमलमकरन्दत्टप्तखान्तः रामचन्द्रेन्द्रग्रथितेषाद्यष्टोत्तरशतोपनिषत्सारसंग्रहभूताष्टोत्तरशतमहावाक्यावलिः परिपूर्ण ग्रन्थो विंशत्यधिकसप्तशतम् |