________________
( 967 )
It ends thus :
इह तावत् स्वपितिवाक्ये परेषामेवं व्याख्यानं । तथा च स्वाप्ययादिति सूत्रावतारिकायां भामत्यां, यदि स्वशब्द आत्मवचनस्तथापि चेतनस्य पुरुषस्याचेतनप्रधानसत्त्वानुपपत्तिः; अथात्मीयवचनस्तथाप्यचेतने पुरुषार्थतयात्मीये प चेतनस्य प्रलयानुपपत्तिः । न हि मृदात्मा घट आत्मीये पाथसि प्रलीयते किन्त्वा - त्मभूतायां मृद्येव । न च रजतमनात्मभूते वस्तुनि प्रलीयते किन्त्वात्मभूतायां शुक्तावेवेति । तथा च भगवत्पादभाष्यं राधाश्रुतिः स्वपितीत्येतत् पुरुषस्य लोकप्रसिद्धं प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् मनःप्रचारोपाधिविशेष सम्बन्धादिन्द्रियार्थानां ह (?) स्तद्विशेषापन्नो जीवो जागर्त्ति तद्वासनाविशिष्टः स्वप्नान् पश्यन्मनः शब्दवाच्यो भवति स उपाधिद्वयोपरमे सुषुप्तास्थायामुपाधिकृतविशेषाभावात् स्वात्मनि प्रलीन इवेति ।
"
The beginning is the same as in Stein, under No. 1633, p. 333.
The object of the work is given in the following verses not quoted by Stein.
मिथ्यात्वसाधकतयाभिमताः परैर्या वाचः श्रुतिस्मृतिपुराण समीर्य्यमाणाः । प्रामाणिकं समभिधाय तदीयमर्थं सर्व्वस्वमौपनिषदस्य निराकरोमि । सामर्थ्यमल्पयितुं ननाम + + यद्यप्यवद्यमपि न प्रगुणं गुणं धा । अस्माद्वशस्य तदपि प्रतिपद्य कञ्चित् सद्यः प्रमोद्यगमिताय मोक्षभावं ॥ तत्रादौ श्रुतिगम्यत्वमद्वैतस्य निरस्यते परिच्छेदान्तरे मानमन्यच्च न्यक्करिष्यते ॥ तत्रादौ प्रतिवादिनामभिमतस्वार्थस्य तत्तत्पदैः लभ्यत्वेपि परप्रमाणघिहतेस्तात्पर्य्यमुत्सार्य्यते । तादृक्षार्थसमर्पणं प्रति पुनस्तेषां पदानां मनागयाप्तेन समर्थ तेति परतः करिष्यते पल्लवः ॥