SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (84 > न सिध्यन्ति सदा देवि नित्यपूजाजपादयः । यज्ञा होमादयो देवि विना समयपूजया ॥ काले संपूजयेद्दिष्णुं काले संपूजयेच्छिवम् । समये पूजयेच्छक्तिं समयोऽपोष्टदेवता ॥ कालः सृजति भूतानि कालो रक्षति नित्यशः । कालः संहरते चान्ते कालो हि दुरतिक्रमः ॥ षष्टिकल्पसहखाणि ये हयन्ति महेश्वरीम् । समये क्षणमात्रेपि पूजया तत् फलं लभेत् ॥ श्रीदेवी । www.kobatirth.org समयः कीदृशो देवः पूजा कीदृग्विधा प्रभो । एतद्दिस्तरतो देव वक्तुमर्हसि शङ्कर || श्रीभैरवः । अष्टोत्तरशतप्रख्याः समयाः सन्ति पार्व्वति । तेषु यः पूजयेदेवों इष्टदेवौश्च साधकः ॥ तस्य देवि भवेद्दुर्गा यथाभौष्टफलप्रदा । समयार्च्चनमेतत्ते वक्ष्यामि पू पार्व्वति ॥ यस्य कस्य न वक्तव्यं श्रुत्वा गोप्यतमं कुरु । चैत्रे मासि सिते पक्षे दिनानि नव पार्व्वति नवदुर्गार्चनं कुर्य्यात् साधकोऽभीष्टसिद्धये । तथे मासि देवेशि सितयक्षादिवासरे ॥ नवम्यन्तां चरेत् पूजां विधिं विधिवदश्वरि । सर्व्वेषु समयेध्वेतौ समयौ देवदुर्लभौ ॥ तत्र यः कुरुते पूजां पठेत् स्तोत्राण्यनेकशः । चरेद्धोमं यथाशक्त्या स साक्षाद्भैरवोपमः ॥ श्रीदेवी । भगवन् श्रोतुमिच्छामि नवदुर्गार्चनं परम् । सत्वरं ब्रूहि मे देव यद्यस्ति मयि ते दया | For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020274
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 01
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1939
Total Pages616
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy