________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेव्यवाच ।
श्रीभैरवः ।
www.kobatirth.org
भगवन् परमेशान शरणागतवत्सल । त्वत्प्रसादान्मया सर्व्वं श्रुतं डामरमुत्तमम् ॥ तन्त्राणां सारमाद्यं तं यामलादिषु विस्तरम् । इदानौं भगवन् श्रोतुमिच्छामि त्वन्निवेदितम् ॥ नवदुर्गानं दिव्यं सर्व्वतन्त्रेषु गोपितम् । सर्व्वकामप्रदं काम्यं साधकानां शुभावहम् ॥
( 83 )
...
एतद्गुह्यतमं देवि न कस्य कथितं मया । पूजां समयदौक्षायाः कोटियूजा-फलप्रदाम् ॥ गुह्याद्गुह्यतमं गोप्यं कृतं तद्बहुकालकम् । इदानों तव भक्त्याहं कथयामि सुविस्तरम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
सन्ति नानाविधैर्मन्त्रैरागमोक्तैः सबीजकैः । तन्त्राणि विविधान्यत्र सहितानि महेश्वरि ॥ ते मन्त्रा निष्फला जाताः कलौ वीर्य्यविवर्जिताः । स्त्री शुद्धिरहिताद् द्रव्याद् भूम्यन्तःशुद्धिकारणात् ॥ व्यन्टतान्मत्सराद् दम्भात् पैशुन्याद्द्रव्यलोलुपात् । न सिध्यन्ति वरारोहे सर्व्वे निष्फलतां गताः ॥ सत्यागमानां शास्त्रन्तु प्रतिज्ञासिद्धिमेव च । नादरेण तद् दृष्टं गुरुभक्तिं विना तथा ॥ तन्मध्ये सारभूतं तु प्रत्यक्षफलदायकम् । रुद्रयामलतन्त्रञ्च चतुःषष्ट्यात्मकं परम् ॥ नानाविधैः शुभैर्मन्त्रैर्युक्त समयपूजनैः । विना समयदीक्षाद्यैः मन्त्रैर्दोक्षापि निष्फला || समयो हि शिवे ब्रह्मा समयो विष्णुरेव हि । समयः शिव एव स्यात् समयो म्टत्यरेव च ॥
For Private and Personal Use Only