________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
390 )
ग्रहणं विविधं प्रोक्तं बाह्याभ्यन्तरभेदतः । दमनारोपणोत्पत्तिर्दमनारोपणे विधिः ॥ पवित्रारोपणोत्पत्तिः पवित्रारोपणे. विधिः । ग्रन्थिभेदो देवतायास्त्रयस्त्रिंशत्प्रकाशके ॥ शारदीयविधानञ्च चतुस्त्रिंशत्प्रकाशके । पशुदानविवेकस्तु पशुभेदादिनिर्णयः॥ देवताटप्तिकालश्च पशोर्लक्षणवीक्षणम् । निषेधोऽप्यनुकल्पश्च पूजामहिषप्रोक्षणम् ॥ नराणां प्रोक्षणं खङ्गलक्षणं पात्रनिर्णयः । शुभाशुभञ्च नैवेद्यं पञ्चत्रिंशत्प्रकाशके ॥ कुमारीपूजन विधौ तासां लक्षणनिर्णयः । शुभाशुभादिसंकेतः ऋतुत्रिंशत्प्रकाशके ॥ सामान्यतः काम्यविधिः घट्कम्मक्रमनिर्णयः । तेषां प्रकीर्णकथनं आसनादि निरूपणम् ॥ मन्त्रग्रन्थनभेदादिमालाकुण्डादिनिर्णयः । होमद्रव्यप्रमाणञ्च सप्तत्रिंशत्प्रकाशके ॥ क्रमेण दशविद्यायाः प्रयोगश्च एथक् पृथक् । प्रायश्चित्तविधिः पश्चादरात्रिंशत्प्रकाशके ॥ साम्राज्यमुद्रिका पश्चाद्यन्त्राणां लक्षणं क्रमात्। मन्त्राणां धारणायोनचत्वारिंशत्प्रकाशके ॥ प्रत्येक माटकावर्णध्यानादीनां निरूपणम् । क्रमेण दशविद्याया मन्त्रभेदाः प्रकीर्तिताः ॥ नानाप्रयोगमन्त्रास्तु चत्वारिंशत्प्रकाशके । कुमारौ योगिनी कालौ वाराहो कुनिका परा ॥ नारायणौ मुण्डमाला चामुण्डा भुवनेश्वरी । गौतमौ समया सौत्रामणिविजयमालिनी । लौलावती गुह्यसिद्धिर्मालिनी परमेश्वरी । प्रचण्ड चण्डिका शम्भ नित्या कात्यायनीति च ॥
For Private and Personal Use Only