________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 389 )
महाशयादिभिर्भिन्ना मालाफलविनिर्णयः । ग्रन्थनादिविवेकस्तु संस्कारा मुण्डसाधनम् ॥ महामालाविनिम्माणं संस्कारौ मुख्यभेदयोः जाग्रतौकरणं तस्यां प्रोक्तं त्रिंशत्प्रकाशके ॥ कालश्चार्थस्ततोऽङ्गानि पुरश्चरणकम्मणः । विघ्नराजविधिविद्याविशेषासायनिर्णयः ॥ क्रमेण दशविद्यायाः जयसंख्यादिनिर्णयः । सर्वसिद्धिप्रदं स्थानं देवतानां पृथक् पृथक् ॥ पौठानाञ्च समुत्पत्तिः क्षेत्रस्य ग्रहणे विधिः । कूम्मचक्रपरिज्ञानमभिषेकविधिस्ततः ॥ कार्याकार्यविचारश्च सङ्कल्पकरणं ततः । जपस्य कालकथनं रहस्यमनुसूतके ॥ मन्त्रविद्याविभेदेन प्रबोधकालनिर्णयः। तयोर्भेदो मन्तशिखामन्त्रचैतन्यकं ततः ॥ क्रमेण दशविद्याया कुल्लकाविधिरीरितः । सेतुविप्रादिभेदेन निर्वाणकथनं ततः ॥ शापोत्कीलनयोर्भेदः शापोडारोसिना मनोः । मन्त्रस्य हृदयं चार्थनिर्णयोत्र विशेषतः ॥ जपस्यारम्भभेदा हि पुनौर पुरकिया । अथवान्यप्रकारेण विविधा तु पुरखिया । शावरस्य च स्तोत्रादेश्चैकत्रिंशत्प्रकाशके । मन्तसिद्धेरुपायाश्च चितासाधनकम च ॥ वीरसाधनभेदाश्च युग्मत्रिंशत्प्रकाशके । जपसंख्याप्रमाणञ्च युग्मत्रिंशत्प्रकाशके ॥ विद्याभेदे जपात् सिद्धिप्रदा संख्या मनोरपि ॥ रहस्यक्रम योगाश्च त्रयस्त्रिंशत्प्रकाशके । नैमित्तिकस्य कालादि कुलाकुलविनिर्णयः ॥
For Private and Personal Use Only