________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 359 )
मृत्यञ्जयस्य मन्त्रोथ प्रोक्त आरोग्यदो नृणाम् । ततः श्रीदक्षिणामूर्तेस्त्रयो मन्त्राः समीरिताः ॥ मनुत्रयं नलकण्ठं ततः पाशुपतो मनुः । अथाघोरास्त्रमन्त्रञ्च चिन्तामणिमनुस्त्वथ ॥ ततस्तुम्बरुबीजच्च मन्त्रोथ खड्गरावणः । ततो बटुकमन्वश्च क्षेत्रपालमनुस्ततः ॥ श्रीप्रासादपरामन्तः पराप्रासादसंज्ञकः । मन्त्रः प्रोक्तस्ततो म्रत्युहन्ता त्रैयम्वको मनुः ॥ अथ नानाविधाः प्रोक्ताः शक्तिमन्त्राः सुसिद्धिदाः । तेव्वादो भुवनेश्यास्त प्रोक्ता मन्त्राः सुसिद्धिदाः ॥ ततः सारखता मन्त्रा माटकामन्त्रपूर्वकाः । लक्ष्मौमन्त्रास्ततः प्रोक्ताः सर्वसम्पत्समद्धिदाः ॥ मातङ्गोमनवः प्रोक्तास्ततो वश्यादिसिद्धिदाः । ततस्तु सुमुखीमन्त्रोड्नौमन्त्रास्ततोखिलाः ॥ ततस्तु भैरवौमन्त्राः प्रोक्ताः सर्वेभितप्रदाः । ततोन्नपूर्णमन्त्रास्तु प्रोक्ता अन्नसम्रद्धिदाः ॥ अन्नप्रदाख्यमन्लोऽथ ततः कामेश्वरौमनुः ।। पञ्चवाणेश्वरीमन्त्रः पञ्चकामेश्वरौमनुः ॥ कामेश्यास्त्राक्षरो मन्त्रः वगलाया मनुस्ततः । ततस्तु त्रिपुटामन्त्र उक्तः शक्तिमनुस्ततः ॥ अश्वारूढामनुरथो उक्तो गौरीमनुस्ततः । स्त्रौवश्यदो मनुरथो ततः पद्मावतौमनुः ॥ ततो ज्येष्ठामनुरथो त्रिकण्टक्या मनुद्दयम् । त्रयोथ वैष्णवीमन्त्रा महाकृत्यामनुस्ततः ॥ छिन्नमस्तामनुरथो धूमावत्या मनुस्ततः । ततः श्रीकालिकामन्त्रास्तारामन्लास्ततोखिलाः ॥ ततः सञ्जौवनौविद्ये वाराह्याश्च मनुस्ततः । कुरुकुल्यामनुरथो यक्षिणौमनवस्तथा ॥
For Private and Personal Use Only