________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 358
)
उच्छियगणपस्याथ प्रोक्तं मन्त्रचतुथ्यम् । सौरा मन्त्रास्ततः प्रोक्तास्तेवाद्योडाक्षरो मनुः । भेदास्तस्योदिता अन्ये अक्षरश्च ततो मनुः ॥ ततः घडर्णः सप्तार्णो मनुर्तिण्डभैरवः । चतुर्वर्णो मनुः प्रोक्तो भुवनेश्यधिदैवतः ॥ अथाजयाख्यः संप्रोक्तो विशेषस्तस्य चेरितः । ततश्चान्द्रो मनुः प्रोक्तो भौमस्य च बुधस्य च ॥ गुरोः शुक्रस्य सौरेश्च राहोः केतोरपौरितः ॥ हुताशनस्य संप्रोक्तास्ततो मन्त्राः सुसिद्धिदाः । ततस्तु वैषावा मन्त्राः प्रोक्ताः सर्वे सुसिद्धिदाः ॥ तेषु नारायणस्योक्तः प्रणवखक्षरो मनुः । ततो हरिहरस्योक्तः श्रीकरस्याथ भाषितः ॥ तत्त्ववर्णस्ततः प्रोक्तो मन्त्रो नारायणस्य तु । वासुदेवस्याथ मनुः लक्ष्मीपूर्वस्य तस्य च ॥ पुरुषोत्तममन्त्रौ च ततः प्रोक्तौ सुसिद्धिदौ । ततो हृषीकेशमन्त्रः श्रीधरस्येरितस्ततः ॥ अच्युतेत्यादिमन्वस्तु ततस्तस्य मनुत्रयम् । हयग्रीवस्य मन्त्राश्च ततः प्रोक्ताः सुसिद्धिदाः ॥ अयोधरादूतात् संज्ञौ च वाराहा मनवस्ततः । ततो नृसिंहमन्त्रस्तु वामना मनवस्ततः ॥ सुदर्शनस्य मन्त्री हौ राममन्त्रास्ततोखिलाः । ततो हनुमन्मन्वस्तु मुकुन्दस्य मनुस्ततः ॥ अथ श्रीकृष्णमन्त्रास्तु सर्बे प्रोक्ताः सुसिद्धिदाः । उक्तः कामस्य मन्त्रोऽथ कार्तवीर्यमनुस्ततः ॥ अथ प्रोक्ता महेशस्य मन्त्राः सकलसिद्धिदाः । तेषु पूवं पञ्चवर्णः प्रोक्तः स च षडाक्षरः ॥ उमामहेश्वरस्योक्तो ततो मन्त्री सुसिद्धिदौ। ततः प्रासाद(न)मन्त्रस्त प्रोक्तो वखर्णकस्ततः ॥
For Private and Personal Use Only