________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( 181 )
विचार तदा तोये स्वेच्छाचारः खयम्प्रभुः । विचरन्तं वटदले तोयेषु परमेश्वरम् ॥ वटवृक्ष स्थितस्तत्र मार्कण्डेयो महामुनिः । ददर्श परमेशानं शिवमव्यक्तरूपिणम् ॥ तुष्टाव स तदा हृष्टो मुनिः परमकारणम् | नमस्ते सर्व्वदेवेश
040
...
इति स्तुत्वा मुनिस्तत्र विरराम सुसंयतः । कृताञ्जलिपुटो भूत्वा दण्डवत् प्रपपात च ॥ तत उत्थाय देवेशं नाभिपद्मसमुद्भवम् । चतुर्वर्णं चतुर्वक्त्रं ददर्श परमं शिशुम् ॥ सृष्टौ नियोजयामास तं ब्रह्माणं सुरेश्वरम् । ध्यात्वा ब्रह्मा तदा तत्र सप्तर्षीन् परमेश्वरि ॥ जनयामास मनसा मानसास्ते ततः प्रिये । विना शक्तिं न शक्तास्ते सृष्टिं कर्त्तुं महेश्वराः ॥ योनौ सृष्टिरतो ज्ञेया ततो योनिमकल्पयत् । ततः कश्यपनामानं मुनिं पुनरजीजनत् ॥ पुनः सृष्टौ च तं पुत्रं ब्रह्मा प्रोवाच यत्नतः । जनयामास ततः कन्यां रूपयौवनमन्वितां ॥ नियोज्य मुनये तां तु ब्रह्मा प्रोवाच सृष्टये । नानायोन्याकृतिस्तास्तु समस्ता जीवजातयः ॥ उत्पादयामास तदा प्रजापतिरखण्डितः । ततो नारायणो देवस्तुष्टो मायामुवाच सः ॥ वटपत्ररूपा त्वं यतो मां विष्टताम्भसि । यतो धर्म- खरूपासि जगत्यस्मिन् सनातनि ॥ arraforन्ति भुवि मनुजास्त्वां सनातनों । सर्व्वकामे वो लोके मायाधम्मैखरूपिणीम् ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir