SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीशिव उवाच । www.kobatirth.org ( 164 ) देवतागुरुमन्त्राणां भावनामेवमुच्यते । मन्त्रो यो गुरुरेवासौ यो गुरुः सा च देवता ॥ काली तारा महाविद्या षोडशी भुवनेश्वरौ । भैरवी छिन्नमस्ता च रमा धूमावती परा ॥ देव्युवाच । गला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सर्व्वतन्त्रेषु कीर्त्तिताः ॥ व्ययन्तु दुर्लभो लोके षडाम्नायनमस्कृतः । एताभ्यः परमा भक्त्या त्रिषु लोकेषु दुर्लभा ॥ सुखमोक्षप्रदा नित्या क्लेशसाधन कुत्रचित् । येन येन प्रकारेण सिद्धिं यास्यति भूतले । सर्व्वान्ते कथयिष्यामि प्रेमभावेन केवलम् ॥ नात्र सिद्धाद्यपेक्षादि न च रुक्षविचारणा । कालादिशोधनं नास्ति न च मित्रारिदूषणम् ॥ सिद्धिं विद्या महाविद्या युगसेवापरिश्रमः । नात्र कश्चिन्महादेवि दुःखसाध्यं न किञ्चन ॥ या काली परमा विद्या सा तारा परिकीर्त्तिता । या तारा घरमा विद्या सैव काली प्रकीर्त्तिता ॥ एतयोर्भन्नभावेन मन्त्राः सिद्धा भवन्ति न । उक्तन्तु कालिकातन्त्रे ताराकल्पे च तन्मया ॥ षोडशी वा महाविद्या चतुर्था कथिता पुरा । लक्ष्मीबीजादिभावेन पञ्चमौ सा भवेदिह ॥ एकाक्षरीबीजहीना महाविद्या भवेत् पुरा । भुवने त्र्यक्षरौ पातु महाविद्या प्रकीर्त्तिता || त्वया विद्या च देवेश कथिता न प्रकाशिता । इदानीं कथयिष्यामि कथयानन्दसुन्दर ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020274
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 08 Part 01
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Chintahran Chakravarti
PublisherAsiatic Society
Publication Year1939
Total Pages616
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy