________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 162 )
5A, नन्वेवं तन्त्रोक्तवेदविरुद्धमार्गस्यापि प्रामाण्यं प्रसज्येतेति चेत् प्रसज्यतां, का नो हानिः। “अथ मदिरां पिबेत्” “प्रपश्येन्मदनावासं परस्त्रीणां विशेषतः” “कोटिभगदर्शनान्मुक्ति" रित्यादितान्त्रिकानुष्ठानार्थं शियानामपि प्रवृत्त्यापत्तिरिति चेत् सत्यं । “येनेनाभिचरन् यजेत” इत्यादि वेदविहितश्येनादियागे न कुतस्तेषां प्रवृत्तिः। अथ वेदविहितत्वमात्रं न शिटककानुष्ठानविषयत्वे तन्वं किन्तु वेदाप्रतिषिद्धत्वविशिएं तत् । भवति हौदं विहितमपि न हिंस्यात् सर्वा भूतानि इत्यादिविधिना प्रतिषिद्धमिति चेत् । एवं तर्हि "ब्राह्मणो मदिरां पौत्वा ब्राह्मण्यादेव होयते” इत्यादितान्त्रिकस्मार्त्तादिवचनस्तस्य प्रतिषिद्धतया कथं तत्र ते प्रवर्तेरन् । अथ पानादिप्रशंसावचनानां का गतिरिति चेत् या गतिः श्येनादियागवचनानाम् । अथ प्ररोचनाभिः तत्तदधिकारिणां तत्र तत्र प्रवर्त्तनेन तत्तत्काम्घार्थाधिगमन एव तेषां तात्पर्य न तु परमपुरुषार्थप्रत्यूहपापापूर्वपरिहारेपौति चेत् इहापि निधीयतां सैव दृष्टिः। किं च निषेधवचनानां त्वन्मते विगतिरेव न हि तेषां निन्दाकरणेन ततो निवृत्तिः फलं ततो निवृत्तेस्तवानभिप्रेतत्वात् । अथ तत्तदैहिककाम्यफलसाधनार्थमेव तत्र प्रवृत्तिरिष्यते। तत्र कामनानुरागात् प्रवृत्तस्य पारलौकिकमनिएं नरकादिरूपं भविष्यतीति चेत् एवं तर्हि सिद्ध नः समौहितम् । न ह्येतावतापि ब्राह्मणादिनिषिद्धार्थबोधकभावस्याप्रामाण्यं श्येनादेरनुष्ठानेऽपि न हि तद्भागस्याप्रामाण्यं कश्चिदप्याचछे। ... ... ... ... ... ... ...
The conclusion drawn is :
6B, मन्मते तु वेदाविरुद्धभागस्य प्रामाणिकतया तयावृत्त्यर्थं विशेषणमावश्यकमिति संक्षेपः । अत्र नौलकण्ठाः । ... ... ... ... ... ... इत्यादि श्रुतिमूलकत्वमेव घट्त्रिंशदाद्यंकयन्त्राणाम्। अयं ह्येतस्याः श्रुतेरर्थः । Colophon :
79A, इति सर्व्वतन्त्रोत्तमे दक्षिणामूर्तिपार्वतीसम्बादे पूर्वखण्डे द्वादशपटलः सम्पूर्णः ।
For Private and Personal Use Only