________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 143 )
शिरश्छेदश्च वहुधा महामन्थानषककम् । परातन्ले च चित्कारसागरं वा महामतम् ॥ चतुर्विशति वै लक्षा श्रताः सर्वेपि धारिताः । इदानौं संशयो जातो तवैव वचनात् प्रभो ॥ एका सा परमा शक्तिः न द्वितीया परेश्वरि । एका शक्ति[:] महामाया विश्व व्याप्य व्यवस्थिता । नादिमध्या न चान्तास्त यया सव्वं प्रवर्त्तते । त्वयोक्ता न द्वितीया सा तन्त्र कुलकुलार्णवे ॥ एषा संधार्यते विश्वं एका त्रैलोक्यपूजिता । एतदेव च यो ब्राह्मौ घडाम्नाय कथं प्रभो ॥
सिंहासनगा प्रोक्ता देव्यः पन्नायिका स्मृता । षडाम्नायविभिन्ना चेदेका सा परमा कथम् ॥ अभिन्नाप्यथ भिन्ना चेहद देव जगत्पते । कथमेका पराशक्ति[:] विभिन्ना परमेश्वरी ॥
सिंहासनगा देवी नायिका षट् प्रकीर्तिता। घडाम्नायविभिन्ना चेत् किं संज्ञाभेदनामतः ॥ पूर्वसिंहासना देवी याम्यसिंहासने स्थिता । सिंहासन पश्चिमाशां सौम्ये सिंहासना परा ॥ सिंहासनमूर्द्धगता ह्यधः सिंहासनास्तथा ॥
सिंहासनसंस्थिता घडानायेति कीर्तिता । कथं सिंहासनं संज्ञा स्थिताह्यान्नाये देवता ॥ तन्त्र वा यामरे वापि चतुर्विंशविलक्षके । ग्रन्थे त्वया सूचिका वै घडाम्नाय विशेषतः ॥ एका परा विभिन्ना किं घसिंहासनमाश्रिता। आद्या शक्तिः परामेका कथं षट्शक्तितां गता ॥ यामाद्या प्रकृती सूक्ष्मा चितिरूपेण संस्थिता । विन्दमालिनौरूपा सा सङ्घ व्याप्य व्यवस्थिता ॥
For Private and Personal Use Only