________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
97
)
Beginning :---
अथ कालपुरुषदानं लिख्यते । अतः परं प्रवच्यामि दानानामुत्तमोत्तमम् । कालम्टत्यहरं साक्षादयम्त्योश्च का कथा ॥ यासाध्याख्यमहारोगमहाभयहरक्षमम् । शत्रुवर्गक्षयकरं ग्रहदोषनिवर्हणम् ॥ तापत्रयहरं सद्यः सर्बोत्पातहरं शुभम् ॥
कालरूपमिति ख्यातं दानं दोषविनाशनम् ॥
The description of Kālapuruşa, a human representation of Time clothed in black, is given as follows (Fol. 1B) :
कालस्य पुरुषाकारं कृष्णवस्त्रेण कल्पयेत् । पादादिमस्तकान्तं च पञ्चारनिप्रमागतः ॥ वितस्तिद्दयमानेन शिरोभागं प्रकल्पयेत् । अर्धारल्या कण्ठदेशमधोभागे भुजदयम् ॥ तदई हृदयस्थाने स्तनमण्डलमाचरेत् । अरनिमात्रमुदरं मध्ये नाभिं प्रकल्पयेत् ॥ तदई कटिदेशं च जघनं दृषणादिकम् । अधोवितस्तिहितये उरू जानू च गुल्फकम् ॥ पादद्वयं प्रकुवौंत अङ्गल्यग्रसमन्वितम् । कर्णाक्षिनासिदौर्घाश्च तत्तद्देशे प्रकल्पयेत् ॥ तिलैश्च पुरयेदत्र तत्तदंशो विचक्षणः । पद्मासने समानीतं शिल्पकैः परिशोभयेत् ॥ ततः सौवर्णरजततामेर्मुक्ताफलादिकैः । भूषणभूषितं चैव स्थाने स्थाने विशेषतः ॥ सुवर्गानूपुरौ कुर्य्याद्दलयौ राजतेन तु | कटिसूत्रं राजतेन कांस्यघण्टासमन्वितम् ॥
For Private and Personal Use Only