________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ नृसिंहध्यानम् ॥ 7750. NRSIMHADHYANAM. यदविद्याविलासेन भूत भौतिकदृष्टयः । तं नौमि परमात्मानं सच्चिदानन्दविग्रहम् ॥१॥ यदन्तेवासिपञ्चास्यनिरस्ता भेदिवारणाः । तं नौमि श्रीनृसिंहाख्यं यतीन्द्रं परमं गुरुम् ॥२॥
नैदाघभानुकिरणेष्विव वारिपूरः
सर्वो विभाति यदबोधवशात्प्रपनः । मालाफणीव च निमीलति यत्प्रबोधा
त्तद्ब्रह्म नौमि सुखमयमात्मरूपम् ॥ ३ ॥
यस्मादभूदभवनानुभवात्सुखाब्धे
विश्वं मरीचिमरुवारिसमं मुरारेः । तस्यालयो निखिललोकसुमङ्गलानां
पुण्यं वपुः प्रकटमस्तु ममासिंहम् ॥ ४ ॥ यस्याज्ञावशवर्तिनोऽनुदिवसं ब्रह्मादिलोकाधिपा
यस्यानन्दशतांशभागिन इमे शक्तादयो निर्माताः । तं सत्यानवधिप्रबोधवपुष भूमानमाशास्महे
स्वान्ते श्रीनरसिंहमाग्रहवतां दूरं सतामन्तिके ॥ ५॥
For Private and Personal Use Only