________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5901
MANSKRIT MANUBORUPTI तत्त्वं तत्त्वं समुत्पन्नमेकं पञ्च च पञ्चधा। जडं चैतन्ययोगेन सर्व वीराट् समुद्भवेत् ॥ १७ ॥ पञ्चभूतविभागोऽयं कल्पितस्तस्वचिन्तकैः । एतत्कार्य च ब्रह्माण्डं यत्र विश्वं प्रकल्पितम् ॥ १८ ॥ अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपम्ज्यते । बोधार्थमेव शिष्याणां तत्त्वज्ञैः कल्पितं क्रमात् ॥ १९ ॥ पञ्चीकृतिरियं पञ्चभूतानां किल कल्पिता । एवं जानाति यो विप्रः स मुक्तो नात्र संशयः ॥ २० ॥ पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे वसेत् ।। जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः॥ २१ ॥ पञ्चविंशद्गुणवैतत्स्वेच्छया विहरमपि । कदाचिदपि योनौ च न बद्धः पूज्य एव सः ॥ २२ ॥
इति संमिश्रपञ्चीकरणं संपूर्णम् ॥
श्रीकृष्णार्पणमस्तु ।।
For Private and Personal Use Only