________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSORIPTS
5908
यत्पादरेणुकाललं सलिलं निपीय
मूकोऽपि मूकयति पण्डितमण्डलानि । सद्भागधेयममितखपदप्रबोधं निधूतमोहविभवं गुरुमानतोऽस्मि ॥ ६ ॥
कल्याणगुणसंपूर्ण निर्वाणविमवालयम् । गीर्वाणेन्द्रसरस्वत्यावरणं शरणं भजे ॥ ७॥
श्रीमद्रुपदद्वन्द्वभ्याननिधूतकल्मषः । कुर्वे तदाज्ञयाऽद्वैतदीषिका भेदभेदिनीम् ॥ ८॥
श्रेयान्स्वधर्मो विगुणोऽपि यस्मा
दित्यब्रवीत्पार्थसुहृत्सुरेशः । तस्मादहं साक्षिविवेकमादौ
गुरुप्रसादात्यकटीकरोमि ॥९॥ याजिज्ञासा यज्ञदानादिभिः स्या
श्रुत्या मन्या चिन्तया सत्प्रबोधः । यस्मिन्बुद्धे बाध्यतेऽनर्थम्लं
तं भूमानं भावये स्वस्वरूपम् ॥ १० ॥
चेतश्चापलमिन्द्रियार्थविषयं त्यक्त्वा भजस्वाभयं
संसारार्णवतारकं नरहरेः पादाब्जरेणुप्लवम् । यो ध्यातो दितिजेन्द्रबालकमासिन्धोर्गतं पर्वतै
राक्रान्तं श्रितमुग्रमोगिभिरनायासेन पारेऽकरोत् ।। ११ ॥
For Private and Personal Use Only