________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
589
SANSKRIT MAKUBORETTS तमसः साक्ष्यहं तुर्यात्तर्योऽहं तमसः परः। दिव्यो देवोऽसि दुर्दों द्रष्टा ध्येयो ध्रुवोऽस्म्यहम् ॥ १९॥ नित्योऽहं निरवद्योऽहं निष्क्रियोऽसि निरञ्जनः । निर्मलो निर्विकल्पोऽहं निराख्यातोऽमि निश्चलः ॥ २० ॥ निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् । निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ।। २१ ।। पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । परावरोऽस्म्यहं प्रज्ञाप्रपञ्चोपशमोऽस्म्यहम् ।। २२ ॥ परामृतोऽस्म्यहं पूर्णः प्रभुरसि पुरातनः । पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ।। २३ ॥ प्रज्ञात्माहं प्रशान्तोऽहं प्रकाशः परमेश्वरः ।। बहुधा चिन्त्यमानोऽहमहं ब्रह्मादिवन्दितः ॥ २४ ॥ बुद्धाऽहं भूतपालोऽहं भारूपो भगवानहम् । महादेवो महानस्मि महाज्ञेयो महेश्वरः ॥ २५ ॥ विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् । वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ।। २६ ॥ विश्वाधिकोऽहं विशदो विष्णुर्विश्वदस्म्यहम् । शुदोऽस्मि शुक्रः शान्तोऽहं शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥ सर्वभूतान्तरात्माहमहममि सनातनः । सर्वेश्वरोऽहं सर्वज्ञः सूक्ष्मः सर्वगतोऽस्म्यहम् ॥ २८ ॥
For Private and Personal Use Only