________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5898
A DESCRIPTIVE CATALOGUE OF अहं सद्विभातोऽहं स्वे महिम्नि प्रतिष्ठितः। सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् ॥ २९ ॥ सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् । समससाक्षी सर्वात्मा सर्वभूतगुहाशयः ॥ ३० ॥ सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः । स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् ।। ३१ ॥ सच्चिदानन्दपूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् । सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि सद्धनः ॥ ३२ ॥ सत्यस्वरूपः सन्मात्रः सिद्धः सर्वात्मकोऽस्म्यहम् । सर्वाधिष्ठानसन्मात्रखात्मा बन्धहरोऽस्म्यहम् ॥ ३३ ॥ सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सानुभूरहम् । स्वतन्त्रोऽस्मि सुविस्पष्टः सुविभातोऽस्म्यहं हरिः ॥ ३४ ॥ अहं हरो हृदिस्थोऽहं हेतुदृष्टान्तवर्जितः । क्षेत्रज्ञः परमात्माहं श्रीमद्देशिकसूक्तितः ॥ ३५ ॥ इत्थमात्मानुसंधानपरो यः पुरुषो भवेत् ।। सोऽविद्याक्लेशनिर्मुक्तो ब्रह्मैव भवति स्वयम् ॥३६॥
इत्यात्मानुसंधानं समाप्तम् ॥ हरिः ओं श्रीमोष्ठीश्वराय नमः ।।
For Private and Personal Use Only