________________
Shri Mahavir Jain Aradhana Kendra
5896
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
अवायुरस्म्यनाकाशोऽतेजस्को ऽव्यभिचार्यहम् । अमतोऽहमजातोऽहमतिसूक्ष्मोऽत्रिकार्यहम् ॥ ९ ॥
अरजस्कोऽतमस्कोऽहमसच्चोऽस्म्यगुणोऽस्म्यहम् । अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥ १० ॥
अद्वैतोऽहमपूर्वोऽहमबाह्योऽहमनन्तरः ।
अश्रोत्रोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः ॥ ११ ॥
अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः ।
अनिच्छोऽहमले पोऽहमकर्तास्म्यहमक्षयः ॥ १२ ॥
अविद्याकार्यहीनोऽहमवाङ्मनसगोचरः ।
अनल्पोऽहमशोकोऽहमविकल्पो ऽस्म्यति ज्वलन् ॥ १३ ॥
आदिमध्यान्तहीनोऽहमाधारोऽस्म्यहमाततः ।
आत्मचैतन्यरूपोऽहमहमानन्दचिद्धनः ॥ १४ ॥
आनन्दामृतरूपोऽहमात्मसंस्थोऽहमान्तरः ।
आप्तकामोऽहमाकाशात्पर आत्मेश्वरोऽस्म्यहम् ।। १५ ।।
ईशानोऽस्म्यहमीच्योऽहमहमुत्तमपूरुषः ।
उत्कृष्टोऽहमुपद्रष्टाहमुत्तरतरोऽस्म्यहम् ॥ १६ ॥
केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः । गुहाशयोsहं गुप्तोऽहं चक्षुषश्चक्षुरस्म्यहम् ॥ १७ ॥
चिदानन्दोऽस्म्यहं चेता चिद्धनचिन्मयोऽस्म्यहम् । ज्योतिर्मयोऽस्म्यहं ज्यायाज्ज्योतिषां ज्योतिरस्म्यहम् ॥
For Private and Personal Use Only