________________
Shri Mahavir Jain Aradhana Kendra
5886
www.kobatirth.org
A DESCRIPTIVE OATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
मसि' इति सामवेदें। 'तमेवैकं जानथ आत्मानमस्या वाचो विमुश्यथ ' इत्याथर्वणवेदे । ' तथोऽहं सोऽसौ योऽसौ सोऽहम् ' । ' स यश्चायं पुरुषे, यश्चासावादित्ये स एकः । स य एवंवित्' । ' प्राणोऽस्मि प्रज्ञात्मा' | ' प्रज्ञानं ब्रह्म' | ' अहं ब्रह्मास्मि ' इति चतुर्णां वेदानाम् । " परो रजसि सावदोम् । ओं ब्रह्म
9 1
अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहं हरिः । आनन्दोऽहमशेषोऽहमजेोऽमृतोऽस्म्यहम् ॥
नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्ययः । सच्चिदानन्दरूपोऽहं परिपूर्णो ऽस्म्यहं सदा ॥
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावनिर्मलः शुद्धः स एवाई न संशयः ॥
ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् । अशक्नुवन्भावयितुं वाक्यमेतदुदीरयेत् ॥ ध्यानयोगेन मासैकाद्ब्रह्महत्यां व्यपोहति । संवत्सरसम्बासात्सिद्व्यष्टकमवाप्नुयात् ॥
तत्सद्ब्रह्मार्पणमस्तु ||
For Private and Personal Use Only