________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ स्वात्मानन्दस्तोत्रम् ॥
7742-44, SVĀTMĀNANDASTOTRAM.
गजाननस्तवः॥ विनौषतिमिरस्तोमसौभगर्द्धिदिवाकरः । मन्यते वरदोऽस्माभिर्गजाननविभुमदा ॥ १ ॥
देवीस्तवः ॥ अनेकजन्मसंप्राप्तामहं महिषमर्दिनीम् । नौमि प्रज्ञा तुरीयां तामम्बा विश्वेति विश्रुताम् ॥ २ ॥
समर्थस्तवः॥
सीतापतिपदाम्भोजभ्रमर्राकृतमानसः । रामदासगुरुः साक्षाद्गतिमें पुरतः सदा ॥ ३ ॥
गुरुस्तवः ।। रमारमणचिन्मानसमर्थानन्तमेरवे । सेतवे गुरवे नित्यं नमस्तस्मै महात्मने ॥ ४ ॥ योगिवर्यशिरोरत्नं तारकब्रह्मसद्गुरुः । तदृष्टिगोचराः सर्वे पुनते नात्र संशयः ॥ ५ ॥ यस्याभिसरणेनैव नाश्यन्ते पापरामयः ।
For Private and Personal Use Only