________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSCRIPTS
'अस्थि चर्म तथा स्नायू रोम मांसं तथैव च ।
पृथ्व्याः पञ्च विधास्तज्ज्ञैः समासेन प्रकीर्तिताः ॥ रक्तं मूलं तथा श्लेष्मा शुक्रं मेदस्तु पञ्चमम् । अपां पञ्च विधास्तज्ज्ञैः समासेन प्रकीर्तिताः ॥ क्षुतृष्णा च तथा निद्रा आलस्यं रतिरेव च । वह्नेः पञ्च विधास्तज्ज्ञैः समासेन प्रकीर्तिताः || प्रचारोचरणारोहास्तथा चोत्थानरोधने । वायोः पञ्च विधास्तज्ज्ञैः समासेन प्रकीर्तिताः ॥ कामः क्रोधव लोभश्व मोहश्चैव भयं तथा । व्योम्नः पञ्च विधास्तज्ज्ञैः समासेन प्रकीर्तिताः ॥ श्रोत्रादिज्ञानेन्द्रियाणां विषयाः शब्दस्पर्शरूपरसगन्धाः । वागादिकर्मेन्द्रियाणां विषया वचनादानगमनविसर्गानन्दाः । अन्तःकरणचतुष्टयस्य विषयाः संकल्पाध्यवसायाभिमानावधारणरूपाः । श्रोत्रादिचतुर्दश्श करणानामधिपतयो दिगादयः । तथा चोक्तम् -
'दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्र मृत्युकाः । तथा चन्द्रश्चतुर्वको रुद्रः क्षेत्रज्ञ ईश्वरः ' || इति । श्रोत्रादिचतुर्दश करणाभ्यध्यात्मसंज्ञिकानि । तेषां विषयाः शब्दादयोऽधिभूतसंज्ञिकाः । ये करणाधितो दिगादयस्ते अधिदैवसंज्ञिकाः । तथा च श्रुतिः
For Private and Personal Use Only
5879