________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ww.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
5880
A DEBORIPTIVE OATHLOHUI Of 'श्रोत्रमध्यात्मम् । श्रोतव्यमधिभूतम् । दिक् वत्राधिदैवतम् । त्वगध्यात्मम् । स्पष्टव्यमधिभूतम् । वायुस्तत्राधिदैवतम् । चक्षुरध्यात्मम् । द्रष्टव्यमधिभूतम् । सूर्यस्तत्राधिदैवतम् । वागध्यात्मम् । वक्तव्यमधिभूतम् । अग्निस्तत्राधिदैवतम् । पादोऽध्यात्मम् । गन्तव्यमधिभूतम् । विष्णुस्तत्राधिदैवतम् । पायुरध्यात्मम् । विसर्जयितव्यमधिभूतम् । मित्रस्तत्राधिदैवतम् । उपस्थोऽध्यात्मम् । आनन्दयितव्यमधिभूतम् । प्रजापतिस्तत्राधिदैवतम् । अन्त:करणमध्यात्मम् । निर्विकल्पस्फुरणमधिभूतम्। नारायणस्तत्राधिदैवतम् । मनोऽध्यात्मम् । मन्तव्यमधिभूतम्। चन्द्रस्तत्राधिदैवतम् । बुद्धिरध्यात्मम् । बोद्धव्यमधिभूतम् । बृहस्पतिस्तत्राधिदैवतम् । चित्तमध्यात्मम् । चेतयितव्यमविभूतम् । क्षेत्रज्ञस्तत्राधिदैवतम् । अहंकारोऽध्यात्मम् । अहंकर्तव्यमधिभूतम् । रुद्रस्तत्राधिदैवतम् । सत्वमध्यात्मम् । ज्ञातव्यमधिभूतम् । विष्णुस्तत्राधिदैवतम् । रजोऽध्यात्मम् । ममकर्तव्यमधिभूतम् । ब्रह्मा तत्राधिदैवतम् । तमोऽध्यात्मम् । विकारयितव्यमधिभूतम् । ईश्वरस्तत्राधिदैवतम् । इत्येवमध्यात्मपधिभूतमधिदैवतं च तत्सर्वमुक्तम् । एवमवशिष्टषु करणेषु द्रष्टव्यम् । एवं चतुर्विंशतितत्वानि । तेभ्यः परं कूटस्थमात्मतत्त्वं विविच्य यो जानाति सोऽमृतस्वाय कल्पते । 'तरति शोकमात्मवित्' इति श्रुतेः।
For Private and Personal Use Only