________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSORITI
5828
प्रयोजनं च विद्यामा अनुष्ठानेऽत्र किं भवेत् । किमन्तरायापगमः किं वा जन्मनिरोधनम् ॥ १५ ॥ पुमर्थावसितिः किं वा यद्वा बाध्यार्थवाधना । अन्यद्वा किंचिदत्र स्यात्प्रक्रमे तदसंभवि ॥ १६ ॥ ब्रह्मप्राप्त्यन्तरायस्य प्रत्यक्संमोहरूपिणः। प्रत्यग्विज्ञानतो ध्वस्तौ कोऽन्तरायोऽन्य उच्यताम् ॥१७॥ सकदात्मप्रसत्यैव निरुपाभ्यखिलं भवेत् । विद्यापोहनिरासेन रोद्धव्यं जन्म किं ततः ॥१८॥
अविद्याध्वंसमात्रेण पुमर्थश्व समाप्यते । आनन्दस्य स्वरूपत्वादर्थनीयान्तरं न हि ॥ १९ ॥ नाबाधित्वेह बाध्यार्थबाधको बाधकात्मताम् । लभते तत्स्वलब्ध्यैव विद्या बाध्यं प्रबाधते ॥ २० ॥ सम्यग्ज्ञानपरिप्लुष्टमोहतत्कार्यरूपिणः । अपेक्ष्यं शिष्यते नान्यदतः स्यादननुष्ठितिः ॥ २१ ॥ अनात्मबुद्धिसत्यत्वनिवारणमपेक्षते । अनुष्ठितिश्चेन्मैवं तत्सत्यत्वस्याप्रसक्तितः ॥ २२ ॥ ध्वान्तादिघस्मरे प्रत्यगद्वैतात्मात्रबोधने । प्रत्यर्थिनि स्थितेऽनात्मधियो स्यात्सत्यता कुतः ।। २३ ॥ तस्मात्पश्यन्वामदेव प्रतिपेद इतीरणात् । विद्याकालेऽपि सर्वाप्तिरविलम्बादितीक्ष्यताम् ॥ २४ ॥ 788
For Private and Personal Use Only