________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5872
A DEBORETTIVE CATALOGUE OF राज्ञा कृषिफलं यद्वत्कराय प्रतिपद्यते । .. सर्वमावस्तथा देवैर्यागभुग्मिनिवार्यते ॥५॥ तस्मादनुत्तमे जन्मन्यनुष्ठानमृते कलौ । युगे देवाघृणवतो न विद्या सर्वभावदा ॥६॥ इति चोदयितुर्येत चत्वारश्चोयहेतवः । तद्यो य इत्यादि वाक्यैश्चतुर्मिस्तानिरस्यति ॥ ७॥ न तावदुत्तमं जन्म सर्वभावप्रयोजकम् । उत्तमस्यापि देवादेः सर्वत्राब्रह्मबोधतः ॥ ८॥ यो देवानामृषीणां वा मध्ये ब्रह्म व्यबुध्यत । असावसावेव सर्वमभूनान्यस्तु कश्चन ॥ ९ ॥ मनुष्याणां तथा मध्ये ब्रह्मवित्सर्वभावता । विद्याविद्य एव तस्मात्सर्वतान्यत्वकारणे ॥१०॥ ब्रह्म वा इदमप्रेऽभूदिति विद्याधिकारिता । श्रूयते ब्रह्मणो ब्रह्म सर्वजातिषु तत्समम् ।। ११ ।। न पश्चादेः सर्वभावप्रसङ्गो बोधवर्जनात् । शूद्रजातिस्तु विदुरः सर्वभावात्स मुच्यते ॥ १२॥ यागविद्येवात्मविद्या नानुष्ठानमपेक्षते । फलदान इति ज्ञेया वामदेवादिदर्शनात् ॥ १३ ॥ ब्रह्मात्मत्वं वामदेवः पश्यन्मन्वादिरूपताम् । प्रतिपेदे बनुष्ठानावसरस्तस्य को वद ॥ १४ ॥
For Private and Personal Use Only