SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5874 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALCOUE OF वामदेवस्य मन्वादिरूपाप्तिर्न विरुध्यते । उपाधिमात्र भेदेन वस्तुतस्त्रैक्यसंभवात् ॥ २५ ॥ वामदेवो मनुः सूर्य इति शन्देरुपाधयः । मूढव्यवहृतौ भान्ति विद्वद्व्यवहृतौ तु चित् ।। २६ । न चिचो वामदेवे वा मनौ वान्येषु वा भिदा । तेन मन्वादिचिद्वामदेवेन प्रत्यपद्यत || २७ ॥ ये तु पुण्ययुगे सर्वभावो न तु कलाविति । सदसद्बोधसाध्यस्य पुण्यकालानपेक्षणात् ॥ २८ ॥ न सूर्यग्रहणापेक्षा बोधाभिद्राक्षये क्वचित् । तथा न सर्वभावोऽयं कालभेदमपेक्षते ।। २९ ॥ य एसपि वेदाहं ब्रह्मास्मीति तदैव सः । इदं सर्वे भवत्येव यदिदं जगदीक्षते ॥ ३० ॥ अविचारितरम्यस्य नामरूपात्मकस्य यत् । जगतो वास्तवं रूपं सततं ब्रह्म तद्भवेत् ॥ ३१ ॥ ब्रह्माहमस्मीति साक्षात्कृतवतः कथम् सर्वभावे विवादः स्यात्सर्वाख्यं ब्रह्म नेतरत् ॥ ३२ ॥ नाम रूपं तु नो सर्वं तयोर्मायामयत्वतः । ब्रह्मैव वास्तवं सर्व ज्ञानेनैव तदाप्यते ॥ ३३ ॥ ब्रह्मैत्र निखिलो जन्तुर्बोधात्प्रागपि वस्तुतः । अब्रह्मत्वमबोधात्स्याद्बोधात्तु ब्रह्मता ततः ॥ ३४ ॥ For Private and Personal Use Only
SR No.020238
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 13
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages500
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy