SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6086 A DESCRIPTIVE CATALOGUE OF त्यर्थः । न हि तत्रेति ॥ यद्यपि वेदस्य प्रत्यक्षावगतिरेवाप्रामाण्यप्रकारः किन्तु स्मृत्यादिलिङ्गकानुमितिरपीति प्रकारविशेषनिरूपणार्थत्वमपि स्मृतिपादस्य वक्तुं शक्यम् । स्मृतिपादारम्भे कथं लक्षणक इति थमुप्रत्ययसहितभाष्यानुवादेन तादर्यमपि ग्रन्थ कतैव सूचितश्च । तथापि तत्र स्वातन्त्र्येण प्रकारनिरूपणं नास्तीत्यत्र तात्पर्यम् । तत्स्वातन्त्र्यनिराकरणप्रस्तावात्ततः कुत्तोऽप्यध्यायः सापवादधर्मप्रमाणनिरूपणार्थ एव । तच्छेषत्वेन परं तत्र तत्र प्रकारविशेषनिरूपणमिति स्वमतमुपसंहरति ॥ तस्मादिति ॥ पूर्वप्रमाणरूपाभ्यामिति वार्तिकन्तु धर्मप्रामाण्ये चोदनाया अर्थवादादीनाश्च व्यवधानाव्यवधानरूपप्रधानोपसर्जन एव सत्वात्प्रधानप्रामाण्यनिरूपणस्य प्रथमपाद एव कृतत्वाभिप्रायम् । न तु प्रथमपाद एव प्रामाण्यविचारस्य समासत्वाभिप्रायम् । चोदनास्त्रे निर्दिष्टो या प्रमाणपरिग्रहः स...प्रकारः स आयेन लक्षणेन अपश्चित इति बृहट्टीकोक्तरित्यभिप्रेत्याह तत्र चोदनैवेत्यादिना । वार्तिकदर्शितमुपोद्घाताधिकरणं प्रस्तौति ॥ तदिहति ॥ उद्भिदाधिकरणेषु यानि प्रत्यक्षविषयवाक्यानि तानि सर्वाण्यत्रोदाहरणानीत्याह ।। संभवतीति ॥ उद्भिदादीनां विध्यार्थवादमन्त्रान्यतमरूपेण धर्मप्रमित्युपयोगाभावमाद्यश्लोकसंगृहीतं विष्णोति ॥ न तावदिति ॥ उत्तमेति ॥ 'स्योनं ते सदनं करोमि' For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy