________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAKBKBIT MANUACRIPTS 8369 यमानः * परमपावनाक्षीणक्षीरतरङ्गिणीताण्डविखतरङ्गरजस्थलायितवलयपरिसरो ब्रह्मदेशोनाम महानग्रहारः । तत्रास्ति कश्चिद्विपश्चिच्छिखामणिः षड्दर्शनीसार्वभौषभट्टाचार्यो गौतमान्ववायदुग्धावाभ्युदयपूर्णचन्द्रमाः सरस्वतीभण्डारसूरकारः श्री. मल्लक्ष्मीधराध्वरिसार्वभौमोनाम पवित्रकीर्तिः ।
तथा हि। मिश्री लज्जाविमिश्रः स्खलति खलमति लुप्तवैर्यस्तथार्यः
सन्दिग्धाध्वा च मध्वागमगुरुरधिकक्षामरामानुजोक्तिः। निर्वेदी भेदवादी भवति च बहुधा तस्करो भास्करोऽपि
श्रीमल्लक्ष्मीधराध्वर्यतुलबुधबरे वादकेली प्रविष्टे ॥ अपिच । वाहायुक्तिप्रवाहा प्रबलकरिघटा भावाणीघटास्ता
योधाः सत्तबोधाः शुकगुरुवचसामर्थटीकापताकाः । भूषा शेषस्य भाषा गुरुमतिविततं शास्त्रमच्छातपत्रं श्रीमल्लक्ष्मीधराध्वर्यतुलबुधवरे वादधार्टी दुधाने ।
पोपात्रसान्परिहसन्ति सुधां वमन्ति
द्राक्षां क्षिपान्ति किल भाक्षिकमाक्षिपन्ति । संफुल्लचारिरुहगन्धसगन्धभूता लक्ष्मीधराध्वरिविभोर्वचसा विलासाः ॥
For Private and Personal Use Only