SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1.60 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF तत्र शरमयं कुर्यात् प्रस्तरं प्रतिल्लोमतः | त्रिषु शङ्कुषु चासीनो जुहुयादुमदर्शनः ॥ मुक्तकेशो वधं प्रेप्सुरचिरेण प्रसाधयेत् । अथवाभिचरेदेनं जुहुयादात्मशोणितम् ॥ वशं नयति राजानं क्षिप्रं जनपदं पुरम् । पुष्टिकर्मापि कर्तव्यं हृद्येनैव यतात्मना अनागसि न कुर्वीत ब्राह्मणो वधसंयुतम् । सरूपवत्साया गोश्च पयसा साधयेश्चरुम् | सहस्रसंपातहुतं पायसे वत्समग्रजम् । सहस्रानुचरो वत्सः स स्याद्रोगैर्विवर्जितः । गाचैव पाययेत्ताश्च भवन्ति व्याधिवर्जिताः । पुत्रांश्च प्रार्थयेन्नित्यं प्रियांनन्यांश्च सज्जनान् ॥ निरामयाच स्निग्धाश्च भवन्ति विगतज्वराः । स्त्रियं चेदभिमन्येत तस्याः संवननं महत् ॥ व्रीहीणां नखभिन्नानां तण्डुलान् सूक्ष्मचूर्णितान् । सहस्रसंपातहुतान् खेदयेत्कुशलोऽग्निना ॥ तेन प्रतिकृतिं कुर्यात्तां ध्यात्वा मनसा स्त्रियम् । अक्तां सर्षपतैलेन जुहुयादङ्गशश्च ताम् ॥ पादौ प्रथमतच्छिन्द्यात्पडित्यग्नौ निधापयेत् । अथ अङ्के जानुनी च ऊरू बाहू ततः शिरः ॥ छित्वा हृदयदेशं तु हृदये स्वे निवेशयेत् । जपने तमृषिं विप्रः स्त्रीवशं सोऽधिगच्छति ॥ नैतत् परगृहीतासु न साध्वीषु कथञ्चन । न धर्मव्रतशीलासु कुर्वीत द्विजसत्तमः ॥ कामं परिगृहीतासु हीनवर्णासु यश्चरेत् । पतिमस्यागुणीकुर्वन्पूर्व पश्चात्तु तां स्त्रियम् ॥ For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy