SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 159 SANSKRIT MANUSORIPTS अन्ते तु द्वादशाहस्य शुचौ देशे समाहितः । पुंसः प्रतिकृति कुर्यात् भूमौ पांसुमयी कृती ॥ तस्या हृदयदेशं तु समाक्रम्य जपेदृषिम् । अमोघं कर्म जानीयादहोरात्रे गते सति ॥ त्र्यहेण धनिनं वैश्यं चतूरामेण क्षत्रियम् । राजानं पञ्चरात्रेण षड्रात्रेण द्विजोत्तमम् ।। तपस्विनस्सप्तराबाजपेद्भुञ्जीत चैव तम् । अपि वोषितः सुनातो जपेदेतत्सदा स्थितः ॥ य इच्छेदशमानेतुं हीनं तु परिवर्जयेत् । सहस्रसंपातहुतं बिल्वानां चूर्णमावपेत् ।। उदपाने वशं नेतुं तं जनं क्षिप्रमानयेत् । मातर्यात्मनि पुत्रेषु पितृभ्रातृसुहृत्सु च ॥ हृद्यमेतत्पयुञ्जीत शिरसा धारयेत तं । ... . सुमित्रं तु परिष्वज्य मूर्धन्याघ्राय चात्मजम् ।। हृद्यमेतत्प्रयुञ्जीत शान्त्यर्थाय सुखाय च । असंसिद्धे संवनने पांसुप्रतिकृतिं पथि ॥ प्रज्वाल्य जुहुयादग्निं घृतेन ब्राह्मणो यदि । क्षत्रियस्त्वथ तैलेन सार्षपेण विशोऽपि च ॥ आयसी वा प्रतिकृति अग्निमध्ये निधापयेत् । तां च प्रज्वलितां मत्वा जुहुयात्तन्मनाश्शुचिः ॥ उप्रेण महसा हन्यात् क्रुद्धश्च जुहुयाघृतम् । यथा यथा प्रज्वलिते हूयते जातवेदासि ।। दीप्तां प्रतिकृति विप्रः तथा स बशमेष्यति । श्मशानदग्धपांसूनां कुर्याद्वेदि विलक्षणाम् ।। वैभीतकेध्मज्वलिते लोहप्रतिकृति न्यसेत् । अर्धरात्रे स्थिते तैलं सार्षपं लवणान्वितम् ।। For Private and Personal Use Only
SR No.020226
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 01
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1928
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy