________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
161
SANSKRIT MANUSCRIPTS भुक्तां वा पायसं सद्यश्छर्दयित्वा निधापयेत् । तच्चूर्णाकृत्य जायायै देयं संवननं स्मृतम् ॥ महावृक्षफलान्येवमयुग्मान्यभिमन्त्रयेत् । तेषां युग्मानि भुञ्जीत स्वयमर्धानि शेषयेत् ॥ तानि दद्याद्यमिच्छेत्तु वशीकर्तुं जपनृषिम् । सुहृद्भूत्वा सुहृद्यस्य देयं संवननं स्मृतम् ।। एकैकमभिरूपं तु हृद्यसूक्ताद्यतः पुनः । कर्माणि स्वभिरूपाणि कुर्याद्यस्तु यथेच्छति ।। पराकदासस्य विधि हृद्येनोक्तं विदुर्बुधाः । स्त्रीणां संवननं चैतत पुंसामपि विधीयते ॥ द्वेष्ये तु ज्ञातिनामेव जपेञ्चैव सदा युधि । खादिरं कारयेच्छकुं हृदि तं सनिवेशयेत् ॥ कृत्वा प्रतिकृतिं पूर्व पांसुभिर्वाथ वा तुषैः । इषुमप्यनुमन्त्र्यैव सङ्ग्रामं सम्प्रकल्पयेत् ॥ रिपुनमेतज्जानीयात्प्रयुक्तः पराजितम् । पराकदासप्रेष्याएं हृद्यं संवननं स्मृतम् ।। चिन्तयन्मनसैवैनत्सूक्तं सिद्धिं नियच्छति ॥
[Rg-vidhana. Verses 436-474.]
॥ ऋग्वेदसंहिता ॥ 282. RG-VEDA SAMHITA.
Not noticed by Burnell. Substance-Paper. Size-61X4 inches. Sheets-2. Lines-8 to a Page. Script
Devanagari. No of Granthas-20. Complete. Beginning, end and colophon--Same as No. 281. Subject: Manyusūkta. Astaka VIII-3-18-19] [Mandala X-7-83-84. 21
For Private and Personal Use Only