SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8676 A DESORIPTIVE CATALOGUE OF अधनस्येव दातृत्वं क्लीबस्येवास्त्रकौशलम् । अज्ञस्येव प्रगल्भत्वमकवेः शास्त्रवेदनम् ॥ विनयेन विना का श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीहशी वाग्विदग्धता ॥ गुरूपदेशादध्येतुं शास्त्रं जडधियोऽप्यलम् । काव्यं तु जायते जातु कस्यचित्पतिमावतः ॥ उपेयुषामपि दिवं सन्निबन्धविधायिनाम् । आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ॥ रूपकादिमलङ्कारं बाह्यमाचक्षते परे । सुपां तिडां च व्युत्पत्तिं वाचां वान्छन्त्यलकतिम् ॥ तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी । शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः ॥ शब्दार्थो सहितौ काव्यं गद्य पद्यं च तद्दिधा । संस्कृतं प्राकृतं चान्यदपभ्रंश इति त्रिधा ॥ Colophon: इति भामहालङ्कारे प्रथमः परिच्छेदः ।। End: सालातुरीयमतमेतदनुक्रमेण को वक्ष्यतीति विरतोऽहमतो विचारात् । शब्दार्णवस्य यदि कश्चिदुपैति पारं भीमाम्भसश्च जलधरिति विस्म योऽसौ ॥ विद्यानां सततमपाश्रयोऽपससा तासूक्तान्न च विरुणद्धि कांश्चिदर्थान् । श्रद्धेयं जगति मतं हि पाणिनीयं माध्यस्थ्याद्भवति न कस्यचित्प्रमाणम ।। अवलोक्य मतानि सत्कवीनामवगम्य स्वधिया च काव्यलक्ष्म । सुजनावगमाय भामहेन प्रथितं रक्रिलगोमिसूनुनेदम् ॥ Colophon: इति भामहालङ्कारे षष्ठः परिच्छेदः ॥ षष्ठया शरीरं निर्णीतं शतषष्ठया त्वलङ्कतिः । पश्चाशता दोषदृष्टिः सप्तत्या न्यायनिर्णयः ॥ For Private and Personal Use Only
SR No.020207
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 22
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages204
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy