SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 À DESCRIPTIVE CATALOGUE OF मोदन्ते विबुधास्तथापि विवृते व्याख्यानतस्स्वाशये मोचानां मृदितत्वचामिव मुदादाने जवादद्मराः ।। ब्रूयुश्चेत्पदवाक्यवर्णततिषु व्यासेन वा संहिताकृप्त्या वा सुधियः कुशाग्रमतयोऽसूयाविमुक्तान्तराः । सारस्यं किमपीह हापयति हि व्याख्या न तन्मामिका दुग्धावस्यशिते सिताश्च ददतं को वा निषेधेदुधः ।। इह खलु देवदेवं वासुदेवमनवरतमपि हृदये चिन्तयन् नरसिंहसूरिस्त प्रसादप्रचुरितया वाक्चन्द्रिकया तदीयलीलाविकासं समुल्लिलासयिषुरीप्सितार्थानुपलब्धिकृत्तमश्शमनाय सन्ततमपि स्वान्त एवाधिष्ठाय सर्वेन्द्रियावभासकमप्रतिहतभासं तमेव प्रार्थयते--आनन्देति । आनन्दे आनन्दात्मनि । “आनन्दो ब्रह्मे" ति श्रुतेः । चिति ज्ञानात्मनि । सांते अभावप्रतियोगिनि “सत्यं ज्ञानमनन्तं ब्रह्मे" ति श्रुतेः। असन्नेव स भवति । असद्ब्रह्मेति वेद चेदित्यादिश्रुत्या आत्मनः अभावप्रतियोगित्वोक्तेः । अनन्ययुजि च युजिर्योग इति धातोः युजेरसमास इति किनि(नुमि)कृते युक्(ङ्) इति रूपम् । अन्येन युकू(ङ्) अन्ययुक्(ङ्) । तृतीया तत्कृतार्थेन गुणवचनेनेति समासः । तथा न भवतीत्यनन्ययुकू(ङ्) तस्मिन् । अनन्ययुजि । अद्वितीय इति यावत् ।। (भू) ॥ शौरेविश्वजनीनमद्भुतमतिब्रह्मेन्द्रमत्यर्गलं गम्भीरं कृतकार्भकत्वमिह यप्राचां कवीनां कृतिम् । नारोहद्भगवत्कटाक्षकलितं तद्भागधेयं ममे त्यानन्दं नरसिंहसूरिरिदमुद्युङ्क्ते विवक्षन् मुदा ॥ (व्या) ॥ शौरेरिति । विश्वजनेभ्यो हितमद्भुतमाश्चर्यकरमतिब्रह्मेन्द्रम् । नरसिंहमूरिर्मुदेदमर्भकत्वं वक्तुमिच्छन् उद्युक्ते उद्युक्तो भवतीति निदर्शना । (म्) | श्रीवत्सोज्ज्वलवक्षसि श्रितवति स्वां वासुदेवे कलां धर्मात्मा वनदुहृदाहतिलसल्लीलाकृतार्थोदये । कौन्तेयेऽपि सहोदरैस्सह महाप्रस्थानमासेदुषि श्रीमानाहितलक्षणः पतिरभूद्भूमेः परीक्षिन्नृपः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy