SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . THE SANSKRIT MANUSORIPTS, 8575 उपास्य भक्तामरशाखिनं यं मूकोऽपि लोकोत्तरमाप्य बोधम् । विनैव यत्नं कुरुते प्रबन्धान् तं दक्षिणामूर्तिमिह प्रपद्ये ॥ तुम्बुरुप्रभृतिवैणिकस्तुता कम्बुदुग्धशरदिन्दुपाण्डरा । अम्बुजासनवधूरुपास्यते चम्पुरामचरितं चिकीर्षुणा ।। आस्यरङ्गभुवि लास्यमाशु मेऽपास्य बुद्धिजडतातिरःपटीम् । उत्तरङ्गयतु भारती नटी चारुशब्दवलयैरलंकृता ॥ येन रामकथां श्रुत्वा सङ्क्षपान्नारदान्मुनेः । रचितं रामचरितं तस्मै वाल्मीकये नमः ॥ प्राचीनाः कति रामचन्द्रविषया व्यङ्गचप्रधानाः स्फुरच्छब्दार्थोभयचित्रिता न कृतयः सन्ति प्रणीता बुधैः । तत्सारस्यविदः कवेरनुचितं काव्यान्तरारम्भणं भक्तिस्तत्र तथापि चोदयति मां रामे गुणानां निधौ ॥ श्रीमद्रामकथासुधारसझरी वाल्मीकिवकेन्दुजां सवस्थैरमृतार्थिभिश्च विबुधैः पेपीयमानां क्रमात् । पायम्पायमथोगिराम्यलम चम्पुप्रबन्धात्मना हारंहारमुदन्वदम्बु जलदो वर्षन् प्रशस्तो न किम् ॥ वल्मीकभूर्मुनिवरोऽथ स नारदोक्तां वाणी सुधासमधुरां मधुरां निशम्य । घोराघसन्ततिनिवारणजागरूकनीरामवाप तमसामवगाहनाय ।। तामवाप्य विचचार तापसस्तत्तटीवनविलोकनोत्सुकः । तत्र कुत्रचिदसौ व्यलोकयत्क्रौञ्चयोमिथुनमुत्तमस्वनम् ॥ Colophon: एवं श्रीशिवरामसूरिरचिते सत्साहितीसारविद्विद्वद्रनमनोविनोदकलनादारार्थभास्वत्पदे । काव्ये बालसुखावबोधजनके श्रीचम्पुरामायणे सम्पूर्णोऽस्य समं कवेरभिमतैः श्रीबालकाण्डोऽसुकः ॥ उत्सार्य मात्सर्यमुदारशीलाः कुत्सां पुरोभागितयोदितां च । गुणागुणानां प्रविचारणाभिरेतं प्रबन्धं परिशोधयन्तु । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy