SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8672 A DESCRIPTIVE CATALOGUE OF नारायणार्यनप्तारं श्रीनिवासार्यपौत्रकम् । वरदाचार्यजातं त्वामप्पलाचार्यमाश्रये ॥ अनेन प्रतिपादितादप्पलाचार्यात् वेङ्कटवरदाचार्यो नाम कश्चित् बालविपश्चिदाविरासीत् । तेन कृतोऽयं प्रबन्धः श्रीकृष्णविजयनामा डिमः । तेनैव सर्वानानन्दयिष्यावः । इदं पुनरवशिष्यते-- अभ्य त्रिपुरुषात् पूर्वकूटस्थः अनेन कथ्यते--- कौण्डिन्य(श्री)वीरवल्लीवरदार्यसहोदरम् । श्रीरङ्गनगरीनाथं श्रीनिवासगुरुं भजे ॥ किञ्च श्रुतीनां सर्वासामनुपदविशेषार्थघटकः कवीनां पूर्वेषां कवयति गिरां तुल्यकवनम् । यजुःशाखाध्यायी शुभमतिरयं श्रीनिधिकविः बुधानन्दी भूमौ विलसति सुतो यस्य सुगुणः ॥ तदनुजोऽपि विभाति शुभोदयः सकलवैदिकलौकिकसारवित् । सुहृदशेषजनस्य निसर्गतः स जयलक्ष्मणसूरिवराह्वयः ॥ अनेन श्रीवेङ्कटेशविषया बहवः प्रबन्धाः कृताः । तेषां नामानि कथ्यन्तेश्रीनिवासचरित्रं, श्रीनिवासकुशलाब्धिचन्द्रिका, श्रीनिवाससेवामृतार्णवः, श्रीदिव्यदम्पतिवरस्तवः, अतिकामकल्पवल्लीत्येतानि कृतानि । क्रियमाणानि च कल्याणसाधिकादीनि करिष्यमाणानि चानेकानि प्रबन्धजातानि प्रकाशन्ते । एतानि कवे. रस्य कनिष्ठभार्यात्मजश्रीवास . . . न्तवराहाचार्यचरित्राणि कथितानि । अस्याद्यजायात्मभवाप्पलार्यतनूभवौ द्वौ वरदः शठारिः । गुरुत्वपीठे . महे वसन्तौ . . . सम्प्रति राज . ततौ ॥ अस्य भ्रातरश्चत्वारः । तेऽपि विद्यावित्तकुलाभिमानकरुणासम्पत्प्रतिष्ठाश्रया भासन्ते । तथाहि--- श्रीमद्राघवदेशिकेन्द्रतनयाः श्रीरङ्गदेशे स्थिताः श्रीवासार्यमुखाः सुखायनगुणाः श्रीशैलनाथात्मजाः । श्रीकृष्णाहयरङ्गदेशिकसुतास्तजाश्च तज्जा इमे श्रीमन्तो वरदार्यबालवनितापुत्राश्च लक्ष्मीपुरे ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy