SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8671 कौण्डिन्यः करिशैलराडिति च तौ श्रीवासवर्यार्थदौ . . . . . . लक्ष्मणगुरुः बुद्धिप्रदश्वेत्यमी ॥ श्रीनारायणवासवार्चितकर श्रीश्रीनिवासादिकैः एतेषां वीरवल्लीगुरून् . . . . स्थितानां गुरूणां मध्ये श्रीरामानुजकौण्डिन्यश्रीवीरवल्लीवरदाचार्य इति प्रसिद्ध जगति । तमेवाह जयति जगति कश्चिच्चित्रचर्यो विपश्चित् प्रवरगुरुयतीन्द्रप्रेक्षितो भूमिचन्द्रः । सकलसुगुणबन्धुः सर्वलोकैकबन्धुर्वरदगुरुवराख्यो वाग्विलासाभिमुख्यः ।। तदभिमततनूजः सत्कलानां समाजः श्रितबुधशतवन्धः श्रीवराहाभिनन्द्यः । जयति भुवि मुमूर्तिर्देशिकोत्तंसकीर्तिर्विमलसुगणधुर्यों वीरवल्लयप्पलार्यः ।। श्रीमत्कौण्डिन्यगोत्राद्वरदगुरुवरात् सर्वधार्याख्यवर्षे तिष्ठत्यर्के तुलायां यदुकुलनिलक श्रीहरेस्तारकायाम् । श्रीमान् जातो विभाति प्रवरगुणनिधिः श्रीनिवासार्यवर्यः क्षीराब्धेः कौस्तुभाख्यो मणिरिव महतामुत्सवाय श्रियै नः ॥ शास्त्रे शास्त्रे सङ्घहग्रन्थकर्ता पात्रे पात्रे सर्वविद्याप्रदाता । श्रीवासार्यः साहितीसारधुर्यः श्रीमद्रले राजते राजपूज्यः ॥ कर्णाटसिंहासनभूमिपालैः सम्मानितो हाटकशाटिकाद्यैः । (यो)नाटकाद्यैः स्वृकृतैः प्रबन्धैरानन्दयत्यार्यजनानशेषान् ॥ रङ्गाचार्यप्रभृतिगुरुभिः पूजितः पालितोऽसौ प्रौढः शास्त्रे परहितपरो रञ्जको मजुसूक्त्या । साहित्ये तु प्रथमगणितः सर्वभाषाप्रबन्धैः श्रीवासार्यो जयति भुवने वीरवल्लीकुलेन्दुः ॥ अस्य वृद्धपितामहसप्तपूरुषात् पूर्व स्थितः अनेन प्रस्तूयते - हस्तीशं लोकविख्यातं कौण्डिन्यं विदुषां वरम् । रामानुजार्यसिद्धान्तस्थापनाचार्यमाश्रये ॥ अस्य दशपुरुषात् पूर्व स्थितः अनेन प्रकाश्यते - सौम्योपयन्तृयतिराजवरप्रदार्यपादारविन्दविनिवेशितसर्वभारम् । कौण्डिन्यवीरलतिकाकुलपद्ममिन्दुमस्मद्गुरुं वरददेशिकमाश्रयामः ।। इति । अद्य स्थितः अनेन वर्ण्यते For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy