SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8547 इह सङ्कल्पसूर्योदये सकलशारीरकशास्त्रार्थः संगृहीतः । शारीरकशास्त्रार्थश्च पञ्चविधः---स्वसिद्धान्तप्रतिष्ठापनं सुधारसविधाभृतः शशिकराकृतिव्याकृताः पुरस्कृततिरस्कृतेक्षुरसशर्करासत्क्रियाः । कथं च वितथं विशङ्कटितवेङ्कटार्योक्तयः स्फुटं विकटबुद्धिभिः सपदि विप्रथेरन्निह ॥ अतीतोदन्वति प्रौढं हनूमति तु जाग्रति । सांयात्रिकाः संचरन्ते किं न पोतैर्महार्णवे ॥ महत्सु सत्सु विद्वत्सु सङ्कल्पमिहिरोदयम् । व्याख्यातुमुत्सुको मोहादहं तत् क्षन्तुमर्हथ ॥ इह खलु वेदान्ताचार्यः सर्वजगप्रसिद्धः कवितार्किकसिंहापरगुणनामधेयः श्रीवेङ्कटेशगुरुसार्वभौमः संसारदवदहनदंदह्यमानं यद्भक्तीति । नारायणो मे समस्तविपदुत्तारायास्त्वित्यन्वयः । यत्संकल्पसूर्योदयः यस्य श्रीमतो नारायणस्य भक्तिर्निदिध्यासनं तस्य प्रचयः दर्शनसमानाकाररूपपरिपाकविशेषः । तदात्मके दिनमुखे प्रातःकाले भक्तिमतां ज्ञानगोचरः सन् क्षेत्रिणः जीवस्य ; जात्येकवचनम् । Colophon: इति श्रीसङ्कल्पसूर्योदयव्याख्यायां स्वपक्षप्रकाशः प्रथमोऽङ्कः ॥ End : श्रीपराशरब्रह्मर्षिवत् जगतां मङ्गलमाशास्ते । यथा स्वप्रबन्धान्ते अपजन्मजरादिकां समृद्धिमिति जगतां भद्रमाशासितवान् , तथा अयमपि श्रीवेदान्ताचार्यः स्वप्रबन्धान्ते जगतां भगवत्प्रसादरूपं मङ्गलं भद्रमाशास्ते इति ॥ Colophon: इति श्रीसङ्कल्पसूर्योदयव्याख्यायां निःश्रेयसलाभो नाम दशमोऽङ्कः ॥ स्वग्रन्थे मत्सरग्रस्तान् प्रत्याह—स्तोतुमिति । अस्मदुक्तं यत्किंचिद्गुणे सति स्तोतुं दोषे सति निन्दितुम् । अथवा दोषे सत्यपि अन्तर्निःसारत्वेऽपि बहिःससंभ्रमैः परैरितरैः किं प्रयोजनम् ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy