________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8543
The copying was finished on Friday, the 5th of Aşãdha Bahula of Pingala year, by the son of Venkațācala Jõşgulu. Beginning:
आत्मानं रमणं च चित्रफलके प्रक्रान्तकामाहवावालिख्य स्मितपूर्णगण्डफलकामालोकयन्तीं रहः । आश्लिप्याद्रिसुतां त्रपावनतमप्युन्नम्य तस्या मुखं भ्राम्यद्भलतमुल्लसन्नयनमाजिघ्रन् हरः पातु वः ॥
(नान्द्यन्ते)
सूत्रधारः---
*
*
त्रिशिरःपुर्या नित्यनिवासरसिकस्य निखिलगीर्वाणाभिवन्दितचरणस्य मुग्धेन्दुशकलालकृतकोटीरस्य सुगन्धिकुन्तलाकुचासक्तपाटीरस्य भगवतो मातृभूतेश्वरस्य वसन्तयात्रायाम् सू--(स्मृतिमभिनीय, सानन्दम् ) अमुं किं न जानासि ?
जयत्यवनिमण्डले स्वयमनन्तरा(ना)रायणः सुधीर्मुहपदाम्बुजद्वितयगाढलग्नान्तरः । यदीयचरणाम्बुजं भवति चारु नीराजितं
वदावदबुधावलीमकुटकोटिरत्नाङ्करैः ।। पारिपार्श्वकः--- अयं किल सत्याद्रिनिवासिनः शरजन्मनो मूर्तिरपरा नराकृतिरिति सन्तः कथयन्ति ।
सू- भगवतः काश्यपस्य महेन्द्रोपेन्द्राविव तनयावस्य सकलभुवनविख्याती जयतः । तयोरयं प्रथमः--
वाचो यस्य जयन्ति सौरभकिरः सायं प्रहर्षोल्लसनीलाम्भोरुहगर्भनिर्भरगलन्माध्वीकधारामुचः । विद्यावान् विनयी विशुद्धचरितो विख्यातनामा च यः
सुब्रह्मण्यसुधीरिति क्षितितले सौभाग्यलक्ष्मीनिधिः ॥ पारिपार्श्वकः ---- ज्ञात एवायं महाभागः । ततःसू-- तस्यायमनुजन्मा ।
For Private and Personal Use Only