________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8544
À DESCRIPTIVE CATALOGUE OF
सरसमधुरधीरोदारसाहित्यभङ्गीन(घु)मुघुमितवच ल]श्रीलब्धकीर्तिप्रचारः । जयति निगमशास्त्र श्रौतसम्पत्समृद्ध सकलावबुधचन्द्रः स्वामिशास्त्री कवीन्द्रः ॥
तेन किल प्रणीतं शृङ्गारसर्वस्वं नाम भाणं निरूपयद्भिरस्माभिरभिनन्द. नीयाः सामाजिकाः । End: तथापीदमस्तु (भरतवाक्यम् )---
सन्तः सन्तु समन्ततोऽपि भुवने) सम्पूर्णकामाः कविश्रेणी वृद्धिमुपेतु सत्प्रभुसभालङ्कारनिषाहि(प्पादि)का । कान्ताभिः सह कामशास्त्रपदवीपाण्डित्यपारङ्गताः
स्वच्छन्दं विहरन्त्वमी रसिकमूर्धन्यास्तु धन्याः सुखम् ॥ Colophon:
इति स्वामिशास्त्रिणा विरचित(तं) शुङ्गारसर्वस्वं नाम भाणं सम्पूर्णम् ।।
___No. 12710. सङ्कल्पसूर्योदयः.
SANKALPASŪRYODAYAH. Pages, 234. Lines, 26 on a page.
Begins on fol. la of the MS. described under No. 5775. Complete.
By Vedantadesika. Same work as that described under R. No. 1855(6) of the Triennial Catalogue of MSS., Vol. II, Part I-C, wherein see for the beginning. End: (भारतवाक्यम् )
अङ्गीकुर्वन्त्वकलुषधियो नित्यमध्यात्मविद्यामाद्यो धर्मः स्पृशतु वसुधामाशिषः पारवर्ती । देवः श्रीमान् निरवधिदयासिन्धुरस्मिन्निबन्धे वक्ता श्रोता वचनविषयः प्रीयतां वासुदेवः ॥
(इति निष्क्रान्ताः सर्वे) Colophon:
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचायस्य कृतिषु संकल्पसूर्योदये निःश्रेयसलाभो नाम दशमोऽङ्कः ।।
स्तोतुं निन्दितुमस्मदुक्तमथवा सोढं समूढं जगत् किं नश्छिन्नमनन्तचिन्तनरसे सुस्थे सुखं तस्थुषाम् ।
For Private and Personal Use Only