SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8522 A DESCRIPTIVE CATALOGUE OF स-- आर्ये किं न जानासि विवेकविजयाभिधानमभिनवं नाटकरतम् ॥ अस्ति खलु सकलहरिदन्तरविख्यातहरितकुलकलशोदधिकलानिधेरखिलसप्ततन्तुसाङ्गानुष्ठानप्रतिष्ठापितसाधिष्ठयशसः सकलशिष्टाभिष्टुताष्टोत्तरशतदिव्यदेशलोभनीयाद्भुतवैभवमहाभूतपुरवास्तव्यस्य श्रीमत्केशवसोमयाजिनः पतिरथस्येवानकदुन्दुभेरिव च कमलासखः सकलभवभयाभितप्तजनसञ्जीवनाय सूनुतयावतीर्णो रङ्गनाथवृषाचलेशकरीशश्रीरामप्रियकुरु . . . . पूर्णप्रख्यापितानितरसुलभप्रभावो यदुगिरिमहिमपुराणप्रकटितनिजावतारवैभवरहस्यो भगवान् रामानुजो नाम । (सहर्षभक्तिपुलकोद्गमम्) अनन्तत्रय्यन्तप्रवचनधुरीणो गुणनिधिः प्रचण्डो वेतण्डः प्रतिकथकरम्भाविमथने । अभूत्तस्मिन्वंशे विधुरिव पयोधौं गुरुवरः कलापूर्णो रामानुज इति यदाख्या विजयते ॥ अतिवेलः खल्वमुष्य देशिकसार्वभौमस्य महिमा । तथा हि चत्वारस्तनुजा बृहस्पतिसमाः षड्दर्शनीपारगा व्याख्यातागममौलयः प्रतिकलं रक्षन्ति सद्वर्तनीम् । छात्राः संयमिसार्वभौमपदवीजैत्रध्वजा जाग्रति श्रीरामावरजस्य देशिकमणेरे गिरामुन्नतिः ॥ तस्य कुमारेषु दाशरथिष्विव रामो ज्येष्ठो वेदान्तगुरुरिव समस्तविद्याविहारभूमिमूर्त इव सकलात्मगुणसमवायः समरपुङ्गवो नाम देशिकसार्वभौमः । तस्यानुजस्तदुपमः प्रणतार्तिहारी पूर्णो गुरुः शमदमादिगुणौघपूर्णः । जागर्ति कीर्तिरनघा महती यदीया दिव्यापगेव भुवनत्रितयप्रतीता ॥ व्याख्याताशेषवेदान्तोदन्तैः सर्वैरभिष्टुतः । से खस्वत्यद्भुतोदारवैभवः पूर्णदेशिकः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy