SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8520 A DESCRIPTIVE CATALOGUE OF (नान्यन्ते) सूत्रधारः-(नेपथ्याभिमुखमवलोक्य) मारिष इतस्तावत् । (प्रविश्य) पारिपार्श्वकः-भाव एषोऽस्मि । सू-अत्र तञ्जानगरे देशान्तरादागताः पौरजानपदा जना भगवत्यास्तावदानन्दवल्लयम्बाया महोत्सवदिदृक्षया सङ्घीभूताः । सु-नन्वस्ति मम वशे सकलशमधनजनहृदयानन्दसमुदाटकं विद्यापरिणयं नाम नाटकम् । पारिपार्श्वकः-कस्तस्य प्रबन्धस्य कविः । स-विद्वत्कल्पतरुरानन्दरायमखी । य एषः गुरुदेवद्विजभक्तो नैमित्तिकनित्यकाम्यकर्मपरः । दीनजनाधीनदयो विहरति समरे च विक्रमार्क इव ।। यस्य किल-- आनन्दरायमखिनो वाल्मीकरिव योगिनः । इतरापेक्षणात् सारस्वतस्सारस्वतोदयः ॥ अपि च नानापूर्वमहाक्रतुप्रणयनरध्यात्मसम्मशनैः कर्मब्रह्मपथप्रचारसविता षड्दर्शिनीवल्लभः । तातो यस्य किलैकराजवसुधाधौरन्धरीगीष्पतिः क्षोणीपालकिरीटलालितपदः ख्यातो नृसिंहाध्वरी ॥ भपि च यस्य तातानुजा . . . . यशःपावितदिङ्मुखः । त्रिवर्गफलसम्पन्नस्त्र्यम्बकामात्यदीक्षितः ॥ यः खातोऽजनि दिव्यसिन्धुसलिले यः स्वात्मविद्याश्रुतः येनाकारि . . . . दक्षिणमखो यः सद्भिराश्रीयते । सोऽयं त्र्यम्बकराययज्वतिलको विद्वत्कवीनां प्रभोः यत्तातस्य नृसिंहरायमखि(ना तु)ल्यप्रभावोऽनुजः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy