________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8518
A DESCRIPTIVE CATALOGUE OF
___No. 12881. विद्धसालभजिकाव्याख्या, मार्गदर्शिनीसहिता. VIDDHASĀLABHANJIKĀ WITH THE COMMENTARY
___MARGADARSINI. Substance, paper. Size, 13 x 8 inches. Pages, 169. Lines, 20 on a
page. Character, Telugu. Condition, good. Appearance, new. Contains one to three acts.
Same work as the above, but with a commentary called Märgadarsinī, the author of which does not give his name. The commentator salutes his guru, named Karunakara. Beginning:
कुलगुरुरबलानां केलिदीक्षाप्रदाने परमसुहृदनको रोहिणीवल्लभस्य । अपि कुसुमपृषत्कैः देवदेवस्य जेता जयति सुरतलीलानाटिकासूत्रधारः ॥ (व्या)मुक्तिप्रदा पदजुषां महिषोत्तमाङ्गव्यक्तस्थितिनिखिलकाङ्कितकल्पवल्ली । भक्तस्य मे मनसि खेलतु सार्वकालमुक्तिस्थलीनिलयिनी परदेवता सा ।।
प्रत्यक्षीकृतनिःशेषविश्वविन्यासमाश्रये ।
अशेषविबुधाशिं गिरीशं राजशेरवरम् ॥ चित्ते निधाय करुणाकरनामधेयानस्मद्गुरून् गुरुकृपाभरपूरिताक्षान् । श्रीराजशेखरकवीन्द्रकृतेरमुष्याः किञ्चिद्यते पदपदार्थविवेकसिद्ध्यै ।।
न प्रोन्मीलितशास्त्रवादविसरत्पाण्डित्यकण्डूतितो नैवाजानकवित्वडम्बरमहागवैज्वलोल्लासतः । कारुण्यप्रसरोल्लसद्गुरुकटाक्षालम्बतः केवलं काव्योदन्वति राजशेखरकवेरस्मिन् विगाहामहे || अपरिचयादतिविषमीभूतः पन्थाः प्रकाश्यते किमपि 'गच्छन्तो यदि सन्तः पुनरिह शुद्धिं वितन्वन्तु ॥ अविचारकृतान्यत्र क्षमतां सकलान्यपि ।
बालस्य दुर्विनीतानि मम मातेव भारती ॥ अथ कविकुलपरमेश्वरो राजशेखरः शृङ्गारप्रधानत्वेन प्रबन्धमा(रि)रचयिषुस्तत्र शृङ्गारदेवतां रतिपतिमेव प्रथमतनं नमस्कर्तव्यत्वेनानुसन्दधानोऽभिनेतव्यस्य वस्तुनः प्रत्याहारादिषु पूर्वरङ्गाङ्गेषु अविघ्नपरिसमाप्तिहेतुताया अवश्यकर्त
For Private and Personal Use Only